← सूक्तं २०.०८३ | अथर्ववेदः - काण्डं २० सूक्तं २०.०८४ मधुच्छन्दाः। |
सूक्तं २०.०८५ → |
दे. इन्द्रः। गायत्री। |
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
अण्वीभिस्तना पूतासः ॥१॥
इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥२॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश्चनः ॥३॥