← सूक्तं २०.०९९ | अथर्ववेदः - काण्डं २० सूक्तं २०.१०० ऋ. नृमेधः। |
सूक्तं २०.१०१ → |
दे. इन्द्रः । उष्णिक् |
अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।
उदेव यन्त उदभिः ॥१॥
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
इन्द्रवाहा वचोयुजा ॥३॥