अथर्ववेदः/काण्डं २०/सूक्तम् १०१

← सूक्तं २०.१०० अथर्ववेदः - काण्डं २०
सूक्तं २०.१०१
ऋ. मेध्यातिथिः।
सूक्तं २०.१०२ →
दे. अग्निः। गायत्री।

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम् ॥१॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
हव्यवाहं पुरुप्रियम् ॥२॥
अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥३॥