← सूक्तं २०.१०३ | अथर्ववेदः - काण्डं २० सूक्तं २०.१०४ ऋ.१-२ मेध्यातिथिः, ३-४ नृ्मेधः। |
सूक्तं २०.१०५ → |
दे. इन्द्रः। प्रगाथः (बृहती) |
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१॥
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥
आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत्।
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥