अथर्ववेदः/काण्डं २०/सूक्तम् १०३

← सूक्तं २०.१०२ अथर्ववेदः - काण्डं २०
सूक्तं २०.१०३
ऋ. सुदीतिपुरुमील्हौ, २-३ भर्गः
सूक्तं २०.१०४ →
दे. अग्निः। १-२ बृहती, ३ सतोबृहती

अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् ।
अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१॥
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥२॥
अच्छ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥३॥