← सूक्तं २०.१०९ अथर्ववेदः - काण्डं २०
सूक्तं २०.११०
ऋ. श्रुतकक्षः, सुकक्षो वा।
सूक्तं २०.१११ →
दे. इन्द्रः। गायत्री।

इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः ।
अर्कमर्चन्तु कारवः ॥१॥
यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
इन्द्रं सुते हवामहे ॥२॥
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
तमिद्वर्धन्तु नो गिरः ॥३॥