← सूक्तं २०.११० अथर्ववेदः - काण्डं २०
सूक्तं २०.१११
ऋ. पर्वतः।
सूक्तं २०.११२ →
दे. इन्द्रः। उष्णिक्।

यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥
यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
अस्माकमित्सुते रणा समिन्दुभिः ॥२॥
यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
उक्थे वा यस्य रण्यसि समिन्दुभिः ॥३॥