अथर्ववेदः/काण्डं २०/सूक्तम् ११४

← सूक्तं २०.११३ अथर्ववेदः - काण्डं २०
सूक्तं २०.११४
ऋ. सौभरिः।
सूक्तं २०.११५ →
दे. इन्द्रः। गायत्री।

अभ्रातृव्योऽना त्वमनापिरिन्द्र जनुषा सनादसि ।
युधेदापित्वमिच्छसे ॥१॥
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥२॥