← सूक्तं २०.११४ अथर्ववेदः - काण्डं २०
सूक्तं २०.११५
वत्सः।
सूक्तं २०.११६ →
दे. इन्द्रः। गायत्री।

अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
अहं सूर्य इवाजनि ॥१॥
अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्।
येनेन्द्रः शुष्ममिद्दधे ॥२॥
ये त्वामिन्द्र न तुष्टुवुर्ऋषयो ये च तुष्टुवुः ।
ममेद्वर्धस्व सुष्टुतः ॥३॥

सायणभाष्यम्

साद्यःक्राभिधानेषु एकाहेषु श्येनयागवर्जितेषु ‘अहमिद्धि पितुष्परि' इत्याज्यस्तोत्रियो भवति । तद् उक्तं वैताने - साद्यःक्रेषु श्येनवर्जम् ‘अहमिद्धि पितुष्परि' इति च ( वैताश्रौ ४०,६ ) इति ।


अहम् । इत् । हि। पितुः । परि । मेधाम् । ऋतस्य । जग्रभ ।

अहम् । सूर्यःऽइव । अजनि ॥ १ ॥


अहम् । प्रत्नेन । मन्मना। गिरः । शुम्भामि । कण्वऽवत् ।

येन । इन्द्रः। शुष्मम् । इत् । दधे ॥ २ ॥


ये । त्वाम् । इन्द्र । न । तुस्तुवुः । ऋषयः । ये । च । तुस्तुवुः ।

मम । इत् । वर्धस्व ।। सुऽस्तुतः ॥ ३ ॥


इति नवमेऽनुवाके एकोनविंशं सूक्तम् ॥


टिप्पणी

एषा ऋचा ऋग्वेदे ८.६.१० एवं सामवेदे १५२ अपि अस्ति। मानवगृह्यसूत्रे १.४ अस्याः विनियोगः श्रवणे उपाकर्मे अस्ति। आर्षेयकल्पे ३.१४ अस्याः विनियोगः साद्यस्क्री कृत्ये अस्ति।

एतेन सद्यःक्रियाङ्गिरस आदित्यानयाजयन्त्स सद्यःक्रीः - ३.५.१.[१७] तेभ्यो वाचं दक्षिणामानयन् । तां न प्रत्यगृह्णन्हास्यामहे यदि प्रतिग्रहीष्याम इति तदु तद्यज्ञस्य कर्म न व्यमुच्यत यद्दाक्षिणमासीत् - ३.५.१.[१८] अथैभ्यः सूर्यं दक्षिणामानयन् । तं प्रत्यगृह्णंस्तस्मादु ह स्माहुरङ्गिरसो वयं वा ऽआर्त्विजीनाः स्मो वयं दक्षिणीया अपि वा अस्माभिरेष प्रतिगृहीतो यऽएष तपतीति तस्मात्सद्यःक्रियोऽश्वः श्वेतो दक्षिणा – माश ३.५.१.[१९]

मेधातिथ्योपरि पौराणिकीयाः संदर्भाः

मेधातिथ्योपरि टिप्पणी