अथर्ववेदः/काण्डं २०/सूक्तम् ११६

← सूक्तं २०.११५ अथर्ववेदः - काण्डं २०
सूक्तं २०.११६
मेध्यातिथिः।
सूक्तं २०.११७ →
दे. इन्द्रः। बृहती।

मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
वनानि नि प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१॥
अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥२॥