← सूक्तं २०.११८ अथर्ववेदः - काण्डं २०
सूक्तं २०.११९
१ आयुः, २ श्रुष्टिगुः।
सूक्तं २०.१२० →
दे. इन्द्रः। प्रगाथः।

अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मेघा असृक्षत ॥१॥
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥२॥