← सूक्तं २०.११९ | अथर्ववेदः - काण्डं २० सूक्तं २०.१२० देवातिथिः। |
सूक्तं २०.१२१ → |
दे. इन्द्रः। प्रगाथः। |
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥२॥