← सूक्तं २०.१२० अथर्ववेदः - काण्डं २०
सूक्तं २०.१२१
वसिष्ठः।
सूक्तं २०.१२२ →
दे. इन्द्रः। प्रगाथः।

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥
न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥