← सूक्तं २.०६ अथर्ववेदः - काण्डं २
सूक्तं २.७
ऋ. अथर्वा
सूक्तं २.०८ →
दे. भैषज्यं, आयुः, वनस्पतिः

अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।
आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥
यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।
ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥
दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।
तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥
परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।
अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥
शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।
चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥


सायणभाष्यम्

'अघद्विष्टा' इति सूक्तेन लौकिकवैदिकाक्रोशयोर्ब्राह्मणशापे, क्रूरचक्षुःपुरुषदृष्टिनिपाते, पिशाचयक्षादिभये च यवमणिं संपात्य अभिमन्त्र्य बध्नीयात् । सूत्रितं हि-- 'अघद्विष्टा' (अ २,७), ' शं नो देवी' ( अ २,२४ ), 'वरणः' (अ ६,८५) इति प्रक्रम्य 'प्रथमेन मन्त्रोक्तं बध्नाति' ( कौसू २६,३३-३५) इति ।

'भार्गवीं नक्षत्रग्रहोपसृष्टभयार्तरोगगृहीतानाम्' ( शाक १७,१) इति विहितायां भार्गव्यां महाशान्तौ सहस्रकाण्डमणिबन्धनेऽपि एतत् सूक्तम् । उक्तं शान्तिकल्पे -– “ 'अघद्विष्टा देवजाता' इति सहस्रकाण्डं भार्गव्याम्" (शाक १९,१ ) इति।


अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।

आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥

अघऽद्विष्टा । देवऽजाता । वीरुत् । शपथऽयोपनी ।

आपः । मलम्ऽइव । प्र । अनैक्षीत् । सर्वान् । मत् । शपथान् । अधि ॥ १ ॥

अघद्विष्टा अघस्य पिशाचरक्षःप्रभृतिजनितस्य पापस्य द्वेषिणी विनाशयित्री। द्विष अप्रीतौ इत्यस्मात् कर्तरि क्तः। देवजाता देवैर्निर्मिता देवार्थं वा उत्पन्ना शपथयोपनी लौकिकस्य वैदिकस्य च ब्राह्मणादिकृतस्य शापस्य विमोहनी निवारयित्री। युप रुप विमोहने । अस्मात् करणे ल्युट् । एवंविधा वीरुत् विरोहणशीला दूर्वा यवो वा । सर्वान् उक्तविधान् शपथान् शापान मत् मत्तः । अधिः पञ्चम्यर्थानुवादी। 'अधिपरी अनर्थकौ' (पा १,४,९३) इत्यनर्थको वा। प्राणैक्षीत् प्रकर्षेण प्रक्षालयतु। तज्जनितम् अरिष्टम् अस्मत्तो निःशेषं वियोजयतु इत्यर्थः । णिजिर् शौचपोषणयोः। अस्माच्छान्दसे लुङि ‘इरितो वा' (पा ३,१,५७ ) इत्यङभावे सिचि रूपम् । 'उपसर्गादसमासेऽपि णोपदेशस्य' (पा ८,४,१४ ) इति णत्वम् । तत्र दृष्टान्तः -- आपो मलमिव । यथा आपः शरीरादिगतं मलं स्वेदपङ्कादिरूपं प्रक्षालयन्ति ।


यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।

ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥

यः । च । सापत्नः । शपथः । जाम्याः । शपथः । च । यः ।

ब्रह्मा । यत् । मन्युतः । शपात् । सर्वम् । तत् । नः । अधःऽपदम् ॥ २ ॥

उक्तान् शपथान् विशेषतो दर्शयति - सापत्नः सपत्नो द्वेष्यो द्वेष्टा च । 'व्यन्त्सपत्ने' (पा ४,१,१४५ ) इति सूत्रेऽनुवादात् सपत्नीव सपत्न इति इवार्थे अकारप्रत्ययान्तो निपातितः । तत्संबन्धी यश्च आक्रोशादिरूपः शपथः । जाम्याः जामिः सहोत्पन्ना भगिनी । 'न जामये भगिन्यै। जामिरन्येऽस्यां जनयन्ति' इति हि यास्कः (नि ३,६) । तस्याश्च यः शपथः । जामिशब्दः सहजातानाम् उपलक्षणम् । 'उदात्तयणो हल्पूर्वात् ' (पा ६,१,१७४ ) इति जामिशब्दात् षष्ठ्या उदात्तत्वम् । ब्रह्मा ब्राह्मणः मन्युतः क्रोधात् यत् शपात् शपेत् । यद् इति क्रियाविशेषणत्वान्नपुंसकत्वम्। शप आक्रोशे । 'लेटोऽडाटौ' (पा ३,४,९४) इत्याडागमः । सर्वम् तत् उक्तं त्रिविधं शपथजातं नः अस्माकम् अधस्पदम् पादस्याधस्तात् । अस्मदसंस्पृष्टं भवतु इत्यर्थः। 'अधःशिरसी पदे' (पा ८,३,४७ ) इति विसर्जनीयस्य सत्वम्।


दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।

तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥

दिवः । मूलम् । अवऽततम् । पृथिव्याः । अधि । उत्ऽततम् ।

तेन । सहस्रऽकाण्डेन । परि । नः । पाहि । विश्वतः ॥ ३ ॥

दिवः द्युलोकात् अवततम् अवाङ्मुखं प्रसृतं मूलम् मूलवद् अवस्थितम् । पृथिव्याः । अधिरुपर्यर्थः । पृथिव्या उपरि उत्ततम् ऊर्ध्वम् उन्नतं वा विस्तृतम् । लोकद्वयं व्याप्य वर्तमानम् इत्यर्थः । तेन उक्तलक्षणेन सहस्रकाण्डेन । सहस्रशब्दः अपरिमितवचनः । अनेकपर्वात्मना । इत्थंभावे तृतीया । हे मणे नः अस्मान् विश्वतः सर्वस्मात् शापात् परि पाहि परितः सर्वतः पालय । इह परिशब्दः पालनकार्स्न्यश म् आह । विश्वत इति । 'भीत्रार्थानां भयहेतुः' (पा १,४,२५) इत्यपादानसंज्ञायां पञ्चम्यास्तसिल्।


परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।

अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥

परि। माम् । परि । मे ।प्रऽजाम् । परि । नः । पाहि । यत् । धनम् ।

अरातिः । नः । मा । तारीत् । मा । नः । तारिषुः । अभिऽमातयः ॥ ४ ॥

हे मणे मां परि पाहि । मे मदीयां प्रजाम् प्रजायत इति प्रजा तां पुत्रपौत्रादिरूपां परि पाहि । नः अस्माकं यद् धनम् अस्ति तदपि परि पाहि । ब्राह्मणाद्याक्रोशेन आत्मपुत्रपौत्रधनादिनाशो भवतीति तदभावः प्रार्थ्यते । शत्रुकृतपीडाभावम् अभ्यर्थ्य तत्कर्तॄणां शत्रूणाम् अभावः प्रार्थ्यते । नः अस्मान् अरातिः शत्रुः मा तारीत् मातिकामतु । अभिमातयः हन्तुम् अभिमन्यमानाः पिशाचयक्षादिरूपाः शत्रवो नः अस्मान् मा तारिषुः मातिक्रामन्तु मा हिंसन्तु । तरतेर्माङि लुङि 'न माङयोगे' (पा ६,४,७४ ) इत्यडभावः ।


शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।

चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥

शप्तारम् । एतु। शपथः । यः। सुऽहार्त् । तेन । नः। सह ।

चक्षुःऽमन्त्रस्य । दुःऽहार्दः । पृष्टीः । अपि । शृणीमसि ॥५॥

अन्यकृतस्य शपथस्य आत्मसंबन्धं परिहृत्य ब्राह्मणाद्याक्रोशस्य अमोघत्वात् शप्तैव विषयो भवतु इत्याह -– शप्तारम् शापकर्तारं पुरुषं शपथः तत्कृतः शापः प्रतिनिवृत्य एतु प्राप्नोतु । यः पुरुषः सुहार्त् शोभनहार्दः सुमनस्कः । अनुकूलकारीत्यर्थः। हृदये भवं हार्दम् । हृदयशब्दात् प्राग्दीव्यतीये अणि 'हृदयस्य हृल्लेखयदण्लासेषु' (पा ६,३,५०) इति हृद्भावे अन्त्यलोपश्छान्दसः । यद्वा हार्दम् आनुकूल्यं करोति हार्दयति। हार्दयतेः क्विपि णिलोपे रूपम्। तेन सुहृदयेन मित्रेण सह नः अस्माकम् । सुखं भवतु इति शेषः । मन्त्रस्य गुप्तं भाषमाणस्य पिशुनस्य । मत्रि गुप्तभाषणे इत्यस्मात् पचाद्यच् । अत एव दुर्हार्दः दुष्टहृदयस्य । सुहार्त्शब्दवद् व्युत्पत्तिः। एतादृशस्य क्रूरस्य चक्षुः सदोषम् अक्षि पृष्टी: । पृष्टयः पर्शवः पार्थास्थीनि । अनेन सर्वे अवयवा उपलक्ष्यन्ते । तान् अपि शृणीमसि शृणीमः हिंस्मः। समन्त्रकमणिबन्धनप्रभावादि वयं लौकिकवैदिकाक्रोशब्राह्मणशापक्रूरचक्षुर्दर्शनादिकृतान् दोषान् विनाशयाम इत्यर्थः। शॄ हिंसायाम् । प्वादित्वात् ह्रस्वत्वम् । 'इदन्तो मसि' (पा ७,१,४६ )। इति द्वितीयकाण्डे द्वितीयेऽनुवाके द्वितीयं सूक्तम् ।