← सूक्तं २.०७ | अथर्ववेदः - काण्डं २ सूक्तं २.८ ऋ. भृग्वङ्गिराः |
सूक्तं २.०९ → |
दे. वनस्पतिः, यक्ष्मनाशनम् |
उदगातां भगवती विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥
अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥२॥
बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥३॥
नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥४॥
नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।
नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥५॥
सायणभाष्यम्
'उदगातां भगवती' इति सूक्तेन कुलागतकुष्ठक्षयग्रहण्यादिरोगशान्तये उदकघटं संपात्य अभिमन्त्र्य गृहाद् बहिर्व्याधितम् अवसिञ्चेत् ।
अत्र 'अपेयम्' इति द्वितीयया ऋचा उक्तव्याधिशान्तये व्युष्टायां रात्रौ उक्तप्रकारेणैव अवसेकं कुर्यात् ।
'बभ्रोः' इति तृतीयया अर्जुनकाष्ठयवबुसतिलपिञ्जिकाः एकीकृत्य अभिमन्त्र्य बध्नीयात् ।
तथा अनयैव ऋचा आकृतिलोष्टं वल्मीकमृत्तिकां वा जीवपशुचर्मणा आवेष्ट्य पूर्ववद् बध्नीयात् ।
'नमस्ते लाङ्गलेभ्यः' इति चतुर्थ्या उदकघटम् अभिमन्त्र्य वृषभयुक्तस्य हलस्य अधस्ताद् व्याधितम् अवस्थाप्य तेनोदकेन अवसिञ्चेत् ।
'नमः सनिस्रसाक्षेभ्यः' इति पञ्चम्या शून्यगृहे उदकघटं संपात्य जरद्गतं च अन्ते संपात्य तद्गर्ते शालातृणानि आस्तीर्य तत्र व्याधितं स्थापयित्वा तेन घटोदकेन आचामयेत् अवसिञ्चेच्च।
सूत्रितं हि -- " 'उदगाताम्' ( अ २,८) इत्याप्लावयति बहिः । 'अपेयम्' [ २ ] इति व्युच्छन्त्याम् । 'बभ्रोः' [ ३ ] इति मन्त्रोक्तम् आकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति । 'नमस्ते लाङ्गलेभ्यः' [४] इति सीरयोगम् अधिशिरोवसिञ्चति । 'नमः सनिस्रसाक्षेभ्यः' [५] इति शून्यशालायाम् अप्सु संपातान् आनयति। उत्तरं जरत्खाते सशालातृणे । तस्मिन्नाचामयत्याप्लावयति' (कौसू २६,४१-२७,४ ) इति। एवं सूक्तेन ऋग्भिश्च क्रियमाणानि कर्माणि उक्तक्षेत्रियव्याध्यै विकल्पेन कुर्यात् । अवसेकबन्धनाप्लावनादीनां सूत्रकृता पृथङ्निर्दिष्टत्वात् । ..
उदगातां भगवती विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥
भगवती तेजस्विन्यौ विचृततः विमोचयतः बन्धम् इति विचृतौ । चृती हिंसाग्रन्थनयोः इत्यस्माद् विपूर्वात् क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतन्नाम्न्यौ तारके मूलनक्षत्रम् । तदधिष्ठानमण्डलापेक्षया द्विवचननिर्देशः। तथा च तैत्तिरीयकम् --
'अमी ये सुभगे दिवि विचृतौ नाम तारके।
प्रेहामृतस्य यच्छताम् एतद् बद्धकमोचनम् ॥' (तैआ २,६,१ ) इति ।
विचृच्छब्दस्य मूलनक्षत्रपर्यायत्वं तत्रैव आम्नातम् -– 'विचृतौ नक्षत्रम् पितरो देवताषाढा नक्षत्रम् आपो देवता' (तै ४,४,१०,२ ) इति । तथाविधे नक्षत्रे उदगाताम् उदिते भवतः। 'इणो गा लुङि' ( पा २,४,४५ ) इति गादेशः । ते नक्षत्रे क्षेत्रियस्य । क्षेत्रे परक्षेत्रे पुत्रपौत्रादिशरीरे चिकित्स्यः क्षयकुष्ठादिदोषदूषितपितृमात्रादिशरीरावयवेभ्य आगतः क्षयकुष्ठापस्मारादिरोगः क्षेत्रिय इत्युच्यते । क्षेत्रियच् परक्षेत्रे चिकित्स्यः' ( पा ५,२,९२ ) इति क्षेत्रियशब्दो निपात्यते । तस्य क्षेत्रियरोगस्य अधमम् अधरकायाश्रितम् उत्तमम् ऊर्ध्वकायाश्रितं च पाशम् पाशवद् बन्धकं रोगबीजं वि मुञ्चताम् विमोचयताम् । मुचेर्लोटि 'शे मुचादीनाम्' ( पा ७,१,५९ ) इति नुम् ।
अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥२॥
इयम् उषःकालीना रात्री रात्रिः। 'रात्रेश्चाजसौ' (पा ४,१,३१) इति ङीप् । अपोच्छतु विवासयतु । उछी विवासे । यथा व्युच्छन्ती रात्रिस्तमो नाशयति एवं तमोवत् आवरकं क्षेत्रियव्याधिम् अपगमयतु इत्यर्थः। अनेन एतद्रोगचिकित्साकर्मणः कालः सूचितः। अभिकृत्वरीः अभिकृत्वर्यः अभितः रोगशान्तिं कुर्वाणाः आदित्यादिदेवता अपोच्छन्तु प्रकृतं व्याधिम् अपगमयन्तु । अभिपूर्वात् करोतेः 'अन्येभ्योपि दृश्यन्ते' (पा ३,२,७५ ) इति क्वनिप् । ततस्तुगागमः। 'वनो र च' (पा ४,१,७) इति ङीब्रेफौ । ‘वा छन्दसि' ( पा ६,१,१०६ ) इति जसः पूर्वसवर्णदीर्घत्वम् । यद्वा अभिकृत्वरीः कर्तनशीलाः अपस्मारादिरोगकारिण्यः पिशाच्यः अपोच्छन्तु अपगच्छन्तु । किञ्च । क्षेत्रियनाशनी क्षेत्रियव्याधेर्विनाशयित्री वीरुत् या तत्तद्रोगभैषज्यप्रस्तावोक्ता ओषधिरस्ति सापि क्षेत्रियम् उक्तं रोगम् अपोच्छतु अपगमयतु ।
बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥३॥
बभ्रोः । अर्जुनऽकाण्डस्य । यवस्य । ते । पलाल्या । तिलस्य । तिलऽपिञ्ज्या ।
वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥ ३ ॥
बभ्रोः । कपिलवर्णस्य अर्जुनकाण्डस्य अर्जुनाख्यवृक्षविशेषकाष्ठस्य । शकलेनेति शेषः । यवस्य । यवः प्रसिद्धः । तस्य पलाल्या तुषेण तिलस्य तिलसंबन्धिन्या तिलपिञ्ज्या तिलसहितमञ्जर्या च कृतो मणिः हे रुग्ण ते तव रोगम् अपोच्छतु । वीरुदित्यादि व्याख्यातम् ।
नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥४॥
नमः । ते । लाङ्गलेभ्यः । नमः । ईषाऽयुगेभ्यः ।
वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥ ४ ॥
हे रुग्ण ते त्वद्रोगशमनाय लाङ्गलेभ्यः वृषभयुक्तसीरेभ्यो नमः । ईषायुगेभ्यः ईषाश्च युगानि च तेभ्यश्च हलावयवेभ्यो नमः। उभयत्रापि पूजायां बहुवचनम् । पीडाकररोगनिवर्तकत्वेन पूज्यत्वम् आरोप्य नमस्कारः कृतः। यद्वा हलादीनाम् अचेतनत्वेऽपि तदभिमानिदेवताभिप्रायेण नमस्कारः । तत्सद्भावश्च भगवता बादरायणेन सूत्रितः--'अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्' (ब्रसू २,१,५)। वीरुदित्यादि गतम् ।
नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।
नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥५॥
नमः । सनिस्रसऽअक्षेभ्यः । नमः । सम्ऽदेश्ये भ्यः ।
नमः । क्षेत्रस्य । पतये । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥ ५ ॥
सनिस्रसाक्षेभ्यः सनीस्रस्यमानानि अतिशयेन विस्रंसमानानि विशीर्यमाणानि अक्षाणि गवाक्षादिद्वाराणि येषां ते सनिस्रसाक्षाः । शून्यगृहा इत्यर्थः। स्रंसु गतौ इत्यस्मात् यङन्ताद् घञि अतोलोपयलोपौ । 'नीग्वञ्चुस्रंसु” (पा ७,४,८४ ) इत्यभ्यासस्य नीगागमः । छान्दसं ह्रस्वत्वम् । तेभ्यः शून्यगृहेभ्यो नमः नमस्कारो भवतु । संदेशेभ्यः संदिश्यन्ते त्यज्यन्ते तद्गतमृदादानेनेति संदेशाः जरद्गर्ताः । तेभ्यो नमः । क्षेत्रस्य पतये शून्यगृहादिरूपस्य क्षेत्रस्याधिपतये एतन्नाम्ने देवाय नमः । 'षष्ठीयुक्तश्छन्दसि वा' (पा १,४,९) इति पतिशब्दस्य घिसंज्ञायां 'घेर्ङिति' (पा ७,३,१११ ) इति गुणः । युष्मत्प्रसादाद् रोगशान्तिर्भवतु इति नमस्काराभिप्रायः । वीरुत् क्षेत्रियनाशनीत्यादि शिष्टं गतम्।
इति द्वितीयकाण्डे द्वितीयेऽनुवाके तृतीयं सूक्तम् ।