← सूक्तं २.०८ अथर्ववेदः - काण्डं २
सूक्तं २.९
ऋ. भृग्वङ्गिराः
सूक्तं २.१० →
दे. वनस्पतिः, यक्ष्मनाशनम्


दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।
अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥
आगादुदगादयं जीवानां व्रातमप्यगात्।
अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥
अधीतीरध्यगादयमधि जीवपुरा अगान् ।
शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥
देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।
चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥
यश्चकार स निष्करत्स एव सुभिषक्तमः ।
स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥


सायणभाष्यम्


‘दशवृक्ष' इति सूक्तेन ब्रह्मग्रहशान्तये पलाशोदुम्बरजम्बूकाम्पीलादिषु सूत्रोक्तेषु इच्छ्या दशवृक्षशकलानि गृहीत्वा तैर्लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा संपात्य अभिमन्त्र्य बध्नीयात् ।

तथैव एतत् सूक्तं दश ब्राह्मणाः ब्रह्मग्रहगृहीतं स्पृशन्तो जपेयुः ।

तद् उक्तं संहिताविधौ । “दशवृक्ष' इति शाकलः । दश सुहृदो जपन्तोऽभिमृशन्ति” (कौसू २७,५;६) इति ।


दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।

अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥

दशऽवृक्ष । मुञ्च । इमम् । रक्षसः । ग्राह्याः । अधि । या । एनम् । जग्राह । पर्वऽसु ।

अथो इति । एनम् । वनस्पते । जीवानाम् । लोकम् । उत् । नय । ॥ १॥

हे दशवृक्ष पलाशोदुम्बरादिदशवृक्षशकलनिर्मित मणे रक्षसः ब्रह्मराक्षसात् ग्राह्याः गृह्णातीति ग्राहिः राक्षसी। ग्रहर्णिन्प्रत्यय औणादिकः । तस्याश्च । अधिः पञ्चम्यर्थानुवादी । इमम् गृहीतं पुरुषं मुञ्च मोचय। दशवृक्षेति। आमन्त्रितस्य च' (पा ६,१,१९८) इति षाष्ठिकम् आद्युदात्तत्वम् । 'आमन्त्रितं पूर्वमविद्यमानवत्' (पा ८,१,७२ ) इति तस्य अविद्यमानवद्भावात् पदपरत्वस्य अभावात् मुञ्चेत्यस्य 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघाताभावे विकरणस्वरेण अन्तोदात्तत्वम् । या ग्राहिर्ब्रह्मराक्षसी पर्वसु शरीरसन्धिषु अमावास्यादिपर्वसु वा एनम् पुरुषं जग्राह गृहीतवती । तस्याः सकाशान्मोचयेति पूर्वेण संबन्धः । अमावास्यायां रक्षसाम् उत्थानं च 'येऽमावास्यां रात्रिम् उदस्थुर्भ्राजम् अत्रिणः' (अ १,१६,१) इति प्राग् आम्नातम । अथो अपिच हे वनस्पते वनानां पतिर्वनस्पतिः। पारस्करादित्वात् सुडागमः । वनस्पतिविकार मणे एनम् गृहीतं पुरुषं जीवानाम् जीवतां प्राणिनां लोकम् स्थानं भूलोकम् उन्नय उद्धृत्य प्रापय । ग्रहावेशेन मृतप्रायं पुनर्जीवनयुक्तं कुरु इति भावः । 'नीवह्योर्हरतेश्च” ( पावा १,४,५१ ) इति स्मरणाद् नयतिर्द्विकर्मकः।


आगादुदगादयं जीवानां व्रातमप्यगात्।

अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥

आ । अगात् । उत् । अगात् । अयम् । जीवानाम् । व्रातम् । अपि । अगात् । अभूत् । ऊं इति । पुत्राणाम् । पिता । नृणाम् । च । भगवत्ऽतमः ॥ २॥ मणिप्रभावं वक्तुं मणिबन्धनसमनन्तरमेव अभिमतफलसिद्धिं दर्शयति--हे मणे त्वत्प्रसादाद् अयम् ग्रहाद् विनिर्मुक्तो लब्धजीवनः आगात् इमं लोकम् आगमत् । उदगात् उदस्थात् । संचारक्षमोभूदित्यर्थः । न केवलम् उत्थानम् , जीवानाम् जीवतां जनानां व्रातम् समूहमपि अगात् प्रापत् । बन्धुजनैः सह व्यवहारम् अकार्षीदित्यर्थः । उ अपिच पुत्राणाम् आत्मीयानां सुतानां पिता जनकोऽभूत् । मृतप्रायस्य आत्मनो गतं पितृत्वं पुनर्जीवनेन आगतम् इत्यर्थः । यद्वा जनिष्यमाणानां पुत्राणाम् उत्पादकोभूदित्यर्थः । किञ्च नृणाम् मनुष्याणां मध्ये भगवत्तमः अतिशयितभाग्ययुक्तः संपन्नः। 'नृ च' (पा ६,४,६ ) इति नामि दीर्घाभावः । 'नामन्यतरस्याम्' (पा ६,१,१७७ ) इति नाम उदात्तत्वम् । मणिबन्धनसमनन्तरमेव फलसिद्धिर्भवतीति अद्यतनभूतार्थवाचिनो लुङः सर्वत्र प्रयोगः । यद्वा 'छन्दसि लुङ्लङ्लिटः' ( पा ३,४,६) इति प्रार्थनायां लुङ् । आगाद् आगच्छतु इत्येवमादि योज्यम् ।


अधीतीरध्यगादयमधि जीवपुरा अगान् ।

शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥

अधिऽइतीः । अधि । अगात् । अयम् । अधि । जीवऽपुराः । अगन् ।

शतम् । हि । अस्य । भिषजः । सहस्रम् । उत । वीरुधः ॥ ३ ॥

अयम् ब्रह्मग्रहाद् विमुक्तः पुरुषः अधीतीः अधीयन्त इत्यधीतयः । इङ् अध्ययने इक् स्मरणे इत्यस्माद् वा कर्मणि क्तिन् । प्रागधीतान् वेदान् स्मर्तव्यान् पदार्थान् वा अध्यगात् अस्मार्षीत् स्मरतु वा । इक् स्मरणे इत्यस्मात् लुङि 'इण्वदिक इति वक्तव्यम्' ( पावा २,४,४५) इति 'इणो गा लुङि' ( पा २,४,४५) इति गादेशः । इङस्त्वात्मनेपदित्वाद नैतद् रूपम् । इङिकावध्युपसर्गं न व्यभिचरतः' इति अधेः प्रयोगः । तथा जीवपुराः जीवानां पुरः भोगायतनानि शरीराणि आवासस्थानानि ग्रामजनपदादीनि वा जीवपुराः । 'ऋक्पूरब्धूःपथामानक्षे' (पा ५,४,७४) इत्यकारः समासान्तः । ताः अध्यगन् अध्यगमत् अज्ञासीत् जानातु वा। गमेर्लुङि ‘मन्त्रे घसह्वरणश' (पा २ ४,८०) इति च्लेर्लुकि संयोगान्तलोपे 'मो नो धातोः' (पा ८,२,६४) इति नत्वम् । उक्ताया अविलम्बितफलसिद्धेर्हेतुम् आह - हि यस्मात् कारणात् अस्य ग्रहगृहीतस्य शतम् अपरिमिता भिषजः । भिषज्यन्ति चिकित्सां कुर्वन्ति इति भिषजो वैद्याः । बहुभिर्वैद्यैः क्रियमाणम् एकम् औषधं फलभेदाय न कल्पत इति औषधानामपि आनन्त्यम् आह -- सहस्रम् इति । सहस्रम् अपरिमिता वीरुधः । विरुन्धन्ति विनाशयन्ति रोगान् इति वीरुधः औषधानि । बहुभिर्वैद्यैरौषधैश्च यत् फलं भवति तद् एतत्सूक्ताभिमन्त्रितमणिबन्धनसामर्थ्येन भवतीति भावः ।


देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।

चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥

देवाः। ते। चीतिम । अविदन् । ब्रह्माणः । उत । वीरुधः।

चीतिम् । ते । विश्वे । देवाः । अविदन् । भूम्याम् । अधि ॥ ४॥

बध्यमानमणेरुक्तं सामर्थ्यं देवादिप्रसिद्धम् इत्याह -- हे मणे ते तव चीतिम् ग्रहविकाराद् रोगिण आदानं ग्रहादेः संवरणं छादनम् अभिभवनं वा देवाः इन्द्राद्या अविदन् विदन्ति जानन्ति । चीवृ आदानसंवरणयोः । अस्माद् भावे क्तिनि 'तितुत्र” (पा ७,२,९) इति इट्प्रतिषेधे वलिलोपे चीतिः इति रूपम् । वेत्तेश्छान्दसे लुङि व्यत्ययेन जुसभावः। तथा ब्रह्माणः ब्राह्मणाः । उतशब्दः अप्यर्थे । वीरुधः औषधानि च। चीतिम् अविदन्निति संबन्धः। विश्वे देवाः एतन्नामानो वरुणमित्रादयो गणदेवाः भूम्यां भूलोके । अधिः सप्तम्यर्थानुवादी । ते तव चीतिम् अविदन् । यद्वा अत्र रुग्ण एव संबोध्यः । हे रुग्ण ते तव मूर्छितस्य चीतिम् संज्ञानम् । चिती संज्ञाने इत्यस्माद् औणादिके किप्रत्यये उपधादीर्घश्छान्दसः । भूम्याम् अधि भूलोके देवा अविदन् लम्भयन्तु प्रापयन्तु । विद्लृ लाभे। अस्माद् अन्तर्णीतण्यर्थात् छान्दसे लुङि लृदित्वाद् अङ् । एवं ब्रह्माण इत्यादि योज्यम् । भूम्याम् अधीति सर्वशेषः ।


यश्चकार स निष्करत्स एव सुभिषक्तमः ।

स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥

यः । चकार । सः । निः । करत् । सः । एव । सुभिषक्तमः ।

सः । एव । तुभ्यम् । भेषजानि । कृणवत् । भिषा । शुचिः ॥ ५ ॥

यः पुरुषो विधानज्ञः अथर्वाख्यो महर्षिर्वा चकार एतन्मणिबन्धनं कृतवान् स निष्करत् निष्कृतिं ग्रहविकारस्य शमनं करोतु । मणिबन्धनकर्ता चिकित्सको मन्त्रसिद्धान् पुरातनान् वैद्यांश्चिन्तयेदिति भावः। करोतेः पञ्चमलकारे 'लेटोऽडाटौ' (पा ३,४,९४ ) इत्यडागमः। 'कःकरत्करति” (पा ८,३,५०) इति निसः षत्वम् । यद्वा यः परमेश्वरश्चकार इदं सर्वं जगत् सृष्टवान् स एव निष्करत् ग्रहविकारस्य निष्कृतिं करोतु । स एव उक्त एव सुभिषक्तमः । निदानज्ञानपूर्वकं चिकित्सकाः सुभिषजः तेभ्योऽयम् उत्कृष्टः आदिवैद्यः । श्रूयते हि--'अध्यवोचद् अधिवक्ता प्रथमो दैव्यो भिषक्' (तै ४,५,१,२) इति, 'भिषक्तमं त्वा भिषजां शृणोमि' (ऋ २,३३,४) इति च । स एव ईश्वर एव हे रुग्ण तुभ्यं भिषजा इदानींतनभिषग्रूपेण । इत्थंभावे तृतीया । भेषजानि कृणवत् करोत । शुचिः निर्मलज्ञानवान् स इति संबन्धः। यद्वा तृतीयायाः सुः । शुचिना भिषजेति योज्यम् । तुभ्यम् इति । 'युष्मदस्मदोर्ङसि' 'ङयि च' (पा ६,१,२११; २१२ ) इत्याद्युदात्तत्वम् । कृवि हिंसाकरणयोश्च इत्यस्मात् पञ्चमलकारे 'धिन्विकृण्व्योर च' (पा ३,१,८०) इति उप्रत्ययः अकारश्चान्तादेशः । 'लेटोऽडाटौ' (पा ३,४,९४ ) इत्यडागमः।

इति द्वितीयकाण्डे द्वितीयेऽनुवाके चतुर्थं सूक्तम् ।