← सूक्तं २.१४ अथर्ववेदः - काण्डं २
सूक्तं २.१५
ब्रह्मा।
सूक्तं २.१६ →
दे. प्राणः, अपान-, आयुः। त्रिपाद्गायत्री।

यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥१॥
यथाहश्च रात्री च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥२॥
यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥३॥
यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥४॥
यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥५॥
यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥६॥


सायणभाष्यम्

'यथा द्यौः' इति सूक्तेन आयुष्कामः स्थालीपाकम् ओदनं शान्त्युदकेन संप्रोक्ष्य अभिमन्त्र्य प्राश्नीयात् । सूत्रित हि-- “ 'यथा द्यौः', 'मनसे चेतसे धिये' (अ ६,४१) इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन उपसिच्य अभिमन्त्र्य प्राशयति” ( कौसू ५४,११) इति ।


यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।

एवा मे प्राण मा बिभेः ॥१॥

या । द्यौः। च । पृथिवी । च । न । बिभीतः । न । रिष्यतः ।

एव । मे। प्राण । मा । बिभेः ॥ १ ॥

द्यौः द्युलोको देवाद्याश्रयभूतः, पृथिवी भूलोको मनुष्यादिभिराश्रितः । परस्परसमुच्चयार्थौ चकारौ । तावुभौ लोकौ यथा येन प्रकारेण देवमनुष्यादिभिः सर्वैरुपजीव्यत्वाद् उपजीव्यविघातकस्य कस्यचिदपि असंभवाद् न बिभीतः भयशङ्कां न प्राप्नुतः। ञिभी भये । यथा च न रिष्यतः न विनश्यतः। रिष हिंसायाम् । देवादिकः। 'यावद्यथाभ्याम्' (पा ८,१,६६ ) इति आख्यातस्य निघातप्रतिषेधः। एव एवम् । 'निपातस्य च' (पा ६,३,१३६) इति सांहितिको दीर्घः। मे मदीय हे प्राण त्वं मा बिभेः शत्रुग्रहरोगादिभ्यो भयशङ्कां मरणशङ्कां च मा कार्षीः । अनेन मन्त्रसामर्थ्येन द्यावापृथिवीवत् चिरकालावस्थानयुक्तो भवेत्यर्थः । बिभेरिति । माङि लुङि प्राप्ते छान्दसो लङ् ।


यथाहश्च रात्री च न बिभीतो न रिष्यतः ।

एवा मे प्राण मा बिभेः ॥२॥

यथा । अहः। च । रात्री । च । न । बिभीतः । न । रिष्यतः ।

एव । मे। प्राण । मा। बिभेः ॥ २॥

अहश्च रात्री च अहोरात्रौ कल्पान्तस्थायित्वाद् यथा न बिभीतः न रिष्यतः । एवा म इत्यादि पूर्ववत् । एवं सर्वेष्वपि पर्यायेषु योज्यम् । रात्रीति । 'रात्रेश्चाजसौ' (पा ४, १,३१) इति ङीप् ।


यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।

एवा मे प्राण मा बिभेः ॥३॥

यथा । सूर्यः । च । चन्द्रः । च । न बिभीतः । न । रिष्यतः ।

एव । मे । प्राण । मा । बिभेः ॥ ३॥

स्पष्टोऽर्थः।


यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।

एवा मे प्राण मा बिभेः ॥४॥

यथा । ब्रह्म । च । क्षत्रम् । च । न । बिभीतः । न । रिष्यतः ।

एव । मे । प्राण । मा । बिभेः ॥ ४ ॥

ब्रह्म ब्राह्मणजातिः क्षत्रम् क्षत्रियजातिः। जातेर्नित्यत्वाभ्युपगमात् भीत्याद्यभावः।


यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।

एवा मे प्राण मा बिभेः ॥५॥

यथा । सत्यम् । च । अनृतम् । च । न । बिभीतः । न । रिष्यतः ।

एव । मे । प्राण । मा । बिभेः ॥ ५॥

सत्यम् यथार्थभाषणम् । अनृतम् मिथ्याभाषणम् । लोकव्यवहारस्य प्रवाहनित्यत्वात् सत्यानृतयोरपि भीत्याद्यभावः। तदभिमानिदेवतापेक्षया वा।


यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।

एवा मे प्राण मा बिभेः ॥६॥

यथा । भूतम् । च । भव्यम् । च । न । बिभीतः । न । रिष्यतः ।

एव । मे । प्राण । मा । बिभेः ॥ ६॥

भूतम् सत्तां प्राप्तं वस्तुजातम् । भव्यम् भविष्यद् उत्पत्स्यमानं वस्तुजातम् । पूर्ववद् अनयोरपि प्रवाहनित्यत्वेन भीत्याद्यभावः । 'भव्यगेय' (पा ३,४,६८) इत्यादिना भवतेः कर्तरि यत्प्रत्ययान्तो निपातितः।

इति द्वितीये काण्डे तृतीयेऽनुवाके पञ्चमं सूक्तम् ।