← सूक्तं २.१५ अथर्ववेदः - काण्डं २
सूक्तं २.१६
ब्रह्मा।
सूक्तं २.१७ →
दे. प्राणः, अपान-, आयुः। (एकावसानम्0 १,३ एकपदासुरी त्रिष्टुप्, २ एकपदासुरी उष्णिक्, ४-५ एकपदासुरी गायत्री।

प्राणापानौ मृत्योर्मा पातं स्वाहा ॥१॥
द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥
सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥
अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा ॥४॥
विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥


सायणभाष्यम्

'प्राणापानौ' इति सूक्तेन आज्यसमित्पुरोडाशपयओदनपायसपशुव्रीहियवतिलधानाकरम्भशष्कुल्याख्यानि त्रयोदश द्रव्याणि आयुष्कामो जुहुयात् । सूत्रितं हि--" 'प्राणापानौ' (अ २,१६), 'ओजोसि' (अ २,१७) इत्युपदधीत" (कौसू ५४,१२)। उपदधीतेत्यत्र 'उक्तैस्त्रयोदशभिर्द्रव्यैर्होम इति जानीयात्' इति पैठीनसिपरिभाषा त्रिषप्तीयसूक्त एवोदाहृता।

अत्र 'द्यावापृथिवी उपश्रुत्या' इति मन्त्रेण आग्रयणेष्टौ ब्रह्मा द्यावापृथिव्यं हविरनुमन्त्रयेत । तद् उक्तं वैताने -– 'ओषधीषु पक्वास्वाग्रयणेष्टिः' इत्युपक्रम्य “ 'यद् विद्वांसः' (अ ६,११५), 'द्यावापृथिवी उपश्रुत्या', 'सोमो वीरुधाम्' ( अ ५,२४,५) इति वैश्वदेवद्यावापृथिव्यसौम्यान्” (वैताश्रौ ८,७) इति।


प्राणापानौ मृत्योर्मा पातं स्वाहा ॥१॥

प्राणापानौ । मृत्योः । मा। पातम् । स्वाहा ॥ १ ॥

हे प्राणापानौ। प्राक् ऊर्ध्वमुखः अनिति चेष्टत इति प्राणः । अप अनिति अवाङ्मुखश्चेष्टते इत्यपानः। तदभिमानिनौ हे देवौ मृत्योः सकाशात् मां पातम् रक्षतम् । स्वाहा युवाभ्याम् इदं हविः स्वाहुतम् अस्तु । मरणस्य प्राणापानवियोगरूपत्वाद् मदीयहविःस्वीकारेण तुष्टयोर्युवयोश्चिरकालावस्थानेन अहं दीर्घायुर्भूयासम् इति प्रार्थनाभिप्रायः । स्वाहा इति देवानां हविर्दाने । 'स्वाहाकारेण वा वषट्कारेण वा देवेभ्योऽन्नं प्रदीयते' इति श्रुतेः। कौशिकेनाप्युक्तम् - 'स्वाहाकारवषट्कारप्रदाना देवाः । स्वधाकारनमस्कारप्रदानाः पितरः' ( कौसू १,२०,२१) अक्षरार्थस्तु यास्केनोक्तः-- 'स्वाहेत्येतत् सु आहेति वा, स्वा वागाहेति वा, स्वं प्राहेति वा, स्वाहुतं हविर्जुहोतीति वा' ( नि ८,२० ) इति। अत्र स्वा वागाहेत्ययम् अर्थस्तैत्तिरीयके स्पष्टम् आम्नातः 'स्वैव ते वागित्यब्रवीत् । सोऽजुहोत् स्वाहेति । त स्वाहाकारस्य जन्म' (तैब्रा २,१,२,३ ) इति ।


द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥

द्यावापृथिवी इति । उपऽश्रुत्या । मा । पातम् । स्वाहा ॥२॥

'तान् वरिष्ठः प्राण उवाच । मा मोहम् आपद्यथ । अहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद् बाणम् अवष्टभ्य विधारयामि' इत्यादिना प्रश्नोपनिषदि (२,३ ) महता प्रपञ्चेन इतरेन्द्रियापेक्षया प्राणस्य श्रैष्ठ्यं प्रतिपादितम् । इति प्रथमतः प्राणप्रार्थनां कृत्वा तदुपजीविनां श्रोत्रादीन्द्रियाणाम् एतदाद्यैर्मन्त्रैः स्थैर्यं प्रार्थ्यते । द्यावापृथिवी। अत्र द्यावापृथिवीशब्देन तदन्तरालवर्तिन्यो दिशो विवक्षिताः। हे द्यावापृथिव्यौ उपश्रुत्या समीपश्रवणकरणेन श्रोत्रेन्द्रियेण शब्दश्रवणशक्तिप्रदानेन । मा पातम् इत्यादि पूर्ववत् ।

सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥

सूर्य । चक्षुषा । मा । पाहि । स्वाहा ॥ ३ ॥

सूर्यश्चक्षुरभिमानी देवः । 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्' (ऐउ १,२ ) इति श्रुतेः। हे सूर्य त्वं चक्षुषा चक्षुरिन्द्रियेण रूपदर्शनशक्त्या । गतम् अन्यत् ।


अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा ॥४॥

अग्ने । वैश्वानर । विश्वैः । मा । देवैः । पाहि । स्वाहा ॥ ४ ॥

वैश्वानर विश्वान् नरान् ऐहिकामुष्मिकलक्षणं तत्तत् कर्मफलं नयतीति वा विश्वैर्नरैस्तत्तद्यागादिकर्मसिद्धये नीयते प्रणीयत इति वा वैश्वानरः। विश्वनरशब्दान्नेतृत्वेन नीयमानत्वेन वा संबन्धीति तस्येदम्' (पा ४,३,१२० ) इति अण् । 'अन्येषामपि दृश्यते' (पा ६,३,१३७ ) इति पूर्वपदस्य दीर्घः । यद्वा विश्वान् जन्तून् अरः प्रतिगतः प्रविष्ट इति विश्वानरः । सामर्थ्यात् प्राणाख्यो वायुः। ऋ गतौ इत्यस्माद् भूते छान्दसः पचाद्यच् । उपपदविभक्तेश्च अलुक् । तेन जन्यमानत्वाद् अयम् अग्निर्वैश्वानरः। पूर्ववद् अण् । यद्वा विश्वे नरा यस्य पोष्यत्वेन स विश्वानरः। स विश्वानरः वैद्युतोग्निः आदित्यश्च । 'नरे संज्ञायाम्' (पा ६,३, १२९) इति पूर्वपदस्य दीर्घः। ताभ्यां जायमानत्वाद् अयं पार्थिवोग्निर्वैश्वानरः । तथा च यास्कः -- 'अयमेवाग्निर्वैश्वानरः इति शाकपूणिः । विश्वानरावित्यप्येते उत्तरे ज्योतिषी वैश्वानरोऽयं यत् ताभ्यां जायते ( नि ७,२३ ) इति । तथाविध हे वैश्वानराग्ने सर्वदेवतात्मक । यद्वा अग्न्युपलक्षिततत्तदिन्द्रियाधिष्ठायक देव विश्वैः सर्वैः देवैः देवनसाधनैर्वागादीन्द्रियैः तत्तदिन्द्रियसामर्थ्यप्रदानेन । माँ पाहीत्यादि गतम्।


विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥

विश्वम्ऽभर । विश्वेन । मा । भरसा। पाहि । स्वाहा ॥५॥

विश्वंभर । विश्वं सर्वं प्राणिजातं बिभर्ति अनुप्रविश्य अशितपीतादिपचनेन पोषयतीति विश्वंभरो जाठराग्निः । संज्ञायां भृतॄवृजि' (पा ३,२,४६ ) इत्यादिना खच् । 'अरुर्द्विषदजन्तस्य मुम् (पा ६,३,६७ ) इति मुम्। तादृशस्त्वं विश्वेन कृत्स्नेन भरसा पोषणशक्त्या। डुभृञ् धारणपोषणयोः इत्यस्मात् 'सर्वधातुभ्योऽसुन्' (पाउ ४,१८९) इति असुन् । विश्वंभरशब्दस्य अग्निवाचकत्वं बृहदारण्यके समाम्नातम् – 'यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वंभरो वा विश्वंभरकुलाये' (बृआ १,४,७ ) इति । यातम् अन्यत् ।


इति द्वितीयकाण्डे तृतीयेऽनुवाके षष्ठं सूक्तम् ।