← सूक्तं २.१९ | अथर्ववेदः - काण्डं २ सूक्तं २.२० अथर्वा। |
सूक्तं २.२१ → |
दे. वायुः। (एकावसानम्) १-४ नृचिद्विषमा गायत्री,५ भुरिग्विषमा। |
वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
सायणभाष्यम्
इत उत्तराणि 'वायो यत्' (अ २,२०), 'सूर्य यत्' (अ २,२१), 'चन्द्र यत्' (अ २,२२), 'आपो यत्' (अ २,२३ ) इति चत्वारि सूक्तानि 'अग्ने यत्' (अ २,१९) इति पूर्वसूक्तवद् व्याख्येयानि । तेषु वाय्वादिदेवतासंबोधनमेव विशेषः। 'आपो यद् वः' इत्यत्र अपां नित्यबहुत्वाद् बहुवचननिर्देशः।
वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
वायो इति । यत् । ते। तपः । तेन । तम् । प्रति। तप । यः ० ० ॥१॥
वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
वायो इति । यत् । ते। हरः। तेन । तम् । प्रति। हर । यः ०० ॥२॥
वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
वायो इति । यत् । ते । अर्चिः । तेन । तम् । प्रति । अर्च । यः ०० ॥३॥
वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
वायो इति । यत् । ते । शोचिः । तेन । तम् । प्रति । शोच । यः ० ० ॥ ४ ॥
वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
वायो इति । यत् । ते । तेजः । तेन । तम् । अतेजसम् । कृणु । यः ०० ॥५॥
इति चतुर्थेऽनुवाके तृतीयं सूक्तम् ।