← सूक्तं २.२० अथर्ववेदः - काण्डं २
सूक्तं २.२१
अथर्वा।
सूक्तं २.२२ →
दे. सूर्यः। (एकावसानम्) १-४ नृचिद्विषमा गायत्री,५ भुरिग्विषमा।

सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


सायणभाष्यम्


सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

सूर्य । यत् । ते । तपः । तेन । तम् । प्रति । तप । यः ०० ॥१॥


सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

सूर्य । यत् । ते । हरः । तेन । तम् । प्रति । हर । यः ०० ॥२॥


सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

सूर्य । यत् । ते । अर्चिः । तेन । तम् । प्रति । अर्च। यः ०० ॥३॥


सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

सूर्य । यत् । ते । शोचिः । तेन । तम् । प्रति । शोच ।। यः ०० ॥ ४ ॥


सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥

सूर्य । यत् । ते । तेजः । तेन । तम् । अतेजसम् । कृणु । यः ०० ॥५॥


इति चतुर्थेऽनुवाके चतुर्थं सूक्तम् ।