← सूक्तं २.२४ अथर्ववेदः - काण्डं २
सूक्तं २.२५
चातनः
सूक्तं २.२६ →
दे. पृश्निपर्णी वनस्पतिः। अनुष्टुप्, ४ भुरिक्

शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः ।
उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥
सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।
तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥
अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।
गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥
गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।
तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥
पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।
तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम् ॥५॥


सायणभाष्यम्

'शं नो देवी पृश्निपर्णी' इति सूक्तस्य चातनगणे पाठात् शान्त्युदकादौ अस्य विनियोगोऽवगन्तव्यः।

तथा कुष्ठादिसर्वरोगभैषज्यकर्मणि अनेन सूक्तेन पृश्निपर्णीं पेषयित्वा लेपयेत् । सूत्रितं हि--'अघद्विष्टा' (अ २,७) 'शं नो देवी' ( अ २,२५) 'वरणः' ( अ ६, ८५) 'पिप्पली' (अ ६,१०९) इति प्रक्रम्य 'द्वितीयेन मन्त्रोक्तस्य संपातवतानुलिम्पति' ( कौसू २६,३३-३६)


शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः ।

उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥

शम् । नः । देवी । पृश्निऽपर्णी । अशम् । निःऽऋत्यै । अकः ।

उग्रा । हि । कण्वऽजम्भनी । ताम् । अभक्षि । सहस्वतीम् ॥ १ ॥

देवी द्योतमाना पृश्निपर्णी चित्रपर्णी ओषधिः नः अस्माकं शम् कुष्ठादिरोगशमनेन सुखम् अकः अकार्षीत् करोतु । 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति लोडर्थे लुङ् । 'मन्त्रे घस' (पा २,४,८० ) इत्यादिना च्लेर्लुक् । गुणे 'हल्ङ्याब्भ्यः' (पा ६,१,६८) इति तिलोपः । निर्ऋत्यै । षष्ठ्यर्थे चतुर्थी । निर्ऋत्याः रोगनिदानभूतायाः अशम् दुःखम् अकः करोतु । हि यस्मात् उग्रा उद्गूर्णबला सती कण्वजम्भनी कण्वस्य पापस्य नाशयित्री। अतः सहस्वतीम् रोगाभिभवनसामर्थ्ययुक्तां ताम् पृश्निपर्णीम् अभक्षि अहं भक्षे अनुलेपादिना सेवे । भक्षेर्लुङि आत्मनेपदोत्तमैकवचने रूपम् । सहस्वतीम् इति । 'तसौ मत्वर्थे' (पा १,४,१९) इति भत्वेन अपदत्वाद् रुत्वाभावः।


सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।

तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥

सहमाना । इयम् । प्रथमा । प्रश्निऽपर्णी । अजायत ।

तया । अहम् । दुःऽनाम्नाम् । शिरः । वृश्चामि । शकुनेःऽइव ॥ २ ॥

सहमाना रोगान् अभिभवन्ती इयं पृश्निपर्णी प्रथमा प्रथिता ओषधीनां मुख्या आदिभूता वा अजायत उत्पन्ना। जनी प्रादुर्भावे । 'ज्ञाजनोर्जा' (पा ७,३,७९ ) इति जादेशः । तया उक्तलक्षणया पृश्निपर्ण्या दुर्नाम्नाम् दद्रुविसर्पकश्वित्रादिकुष्ठरोगविशेषाणां शिरः शिरोवत्प्रधानभूतं रोगनिदानम् अहं वृश्चामि छिनद्मि नाशयामि । तत्र दृष्टान्तः -- शकुनेरिव यथा पक्षिणः शिरः खड्गादिप्रहरणसाधनम् अनपेक्ष्य अनायासेन छिद्यते एवं पृश्निपर्णीलेपनमात्रेण समूलम् उन्मूलयामीत्यर्थः।


अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।

गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥

अरायम् । असृक्ऽपावानम् । यः। च । स्फ़ातिम् । जिहीर्षति ।

गर्भऽअदम् । कण्वम् । नाशय । पृश्निऽपर्णि । सहस्व । च ॥ ३ ॥

असृक्पावानम् शरीरगतरक्तस्य पातारम् अरायम् अरातिं कुष्ठादिरोगात्मकम् । नाशयेति संबन्धः। कुष्ठादिरोगेण शरीरपोषकशुद्धरक्तस्यापगमात् पानव्यपदेशः। पिबतेः 'आतो मनिन्क्वनिब्वनिपश्च' (पा ३,२,७४ ) इति वनिप् प्रत्ययः । किञ्च यः रोगो ग्रहण्यादिरूपः स्फातिम् शरीरवृद्धिं जिहीर्षति हर्तुम् इच्छति नाशयितुम् उपक्रमते । तं नाशयेति संबन्धः । स्फायी वृद्धौ । क्तिंनि 'तितुत्र' ( पा ७,२,९) इति इट्प्रतिषेधे वलि लोपः । हरतेः सनि 'अज्झनगमां सनि' ( पा ६,४,१६) इति दीर्घे 'ऋत इद्धातोः' (पा ७,१,१००) इति इत्त्वम् । यद्वृत्तयोगेन निघातप्रतिषेधे नित्त्वाद् आद्युदात्तत्वम् । तथा हे पृश्निपर्णि गर्भादम् गर्भस्य भक्षकं कण्वम् रोगनिदानपापं नाशय सहस्व च गर्भध्वंसकान् शत्रूंश्च अभिभव । गर्भादम् इति । अद भक्षणे । अस्माद् गर्भोपपदाद् ‘अदोऽनन्ने' (पा ३,२,६८ ) इति विट् प्रत्ययः।।।


गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।

तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥

गिरिम् । एनान् । आ । वेशय । कण्वान् । जीवितऽयोपनान् ।

तान् । त्वम् । देवि । पृश्निऽपर्णि । अग्निःऽइव । अनुऽदहन् । इहि ॥ ४ ॥

हे पृश्निपर्णि जीवितयोपनान् प्राणस्य मोहकान् । युप रुप लुप विमोहने । 'कृत्यल्युटो बहुलम्' (पा ३,३,११३) इति कर्तरि ल्युट् । एनान् उक्तविधान् कण्वान् कुष्ठादिरोगनिदानभूतान् पाप्मनः गिरिम् पर्वतं स्वसंचाररहितम् आ वेशय प्रवेशय । ‘गतिबुद्धिप्रत्यवसानार्थ' (पा १,४,५२) इति विशतेर्गत्यर्थाद् अणिकर्तुः पाप्मनः कर्मत्वम् । हे देवि द्योतमाने हे पृश्निपर्णि त्वं तान् गिरौ आवेशितान् कण्वान् अनुदहन् अग्निरिव अरण्यस्थितान् सर्पमृगादीन् अनुगम्य दहन् दावाग्निरिव अनुदहन्ती इहि गच्छ। अनुदहन्निति । अनुदहनलक्षणस्य साधारणधर्मस्य उपमानोपमेयनिष्ठत्वाद् उपमा


पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।

तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम् ॥५॥

पराचः । एनान् । प्र । नुद । कण्वान् । जीवितऽयोपनान् ।।

तमांसि । यत्र । गच्छन्ति । तत् । क्रव्यऽअदः । अजीगमम् ॥ ५ ॥

हे पृश्निपर्णि जीवितयोपनान् एनान् अन्वादिष्टान् कण्वान् पराचः प्र णुद पराङ्मुखान् प्रेरय अपसारय । परापूर्वाद् अञ्चतेः क्विनि शसि अकारलोपे 'अनिगन्तोऽञ्चतावप्रत्यये' (पा ६,२,५२ ) इति पूर्वपदप्रकृतिस्वरत्वम् । तमांसि सूर्योदयानन्तरं यत्र सूर्यरश्मिसंचाररहितं यं प्रदेशं गच्छन्ति तत् तथाविधं निःसूर्यं स्थानं क्रव्यादः पिशितादिधातुभक्षकान् कुष्ठादिरोगान् अजीगमम् त्वल्लेपनेन अहमपि प्रापयामि । क्रव्यशब्दोपपदाद् अत्तेः 'क्रव्ये च' (पा ३,२,६९) इति विट्प्रत्ययः । गमेर्ण्यन्तात् लुङि चङि रूपम् ।

इति चतुर्थेऽनुवाकेऽष्टमं सूक्तम् ।