← सूक्तं २.२५ अथर्ववेदः - काण्डं २
सूक्तं २.२६
सविता
सूक्तं २.२७ →
दे. पशवः। त्रिष्टुप्, ......

एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष ।
त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यच्छतु ॥१॥
इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् ।
सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यच्छ ॥२॥
सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः ।
सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥
सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।
संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥
आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।
आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥



सायणभाष्यम्

'एह यन्तु पशवः' इति सूक्तेन गोपुष्टिकामः अभिनवं पयः वत्सलालामिश्रितं संपात्य अभिमन्त्र्य अश्नीयात् ।

तथा अनेन सूक्तेन गाम् अभिमन्त्र्य दद्यात् ।

तथैव अनेन उदपात्रम् अभिमन्त्र्य गोष्ठमध्ये निनयेत् ।

एवं सारूपवत्सौदने गुग्गुलुलवणशकृत्पिण्डान् प्रक्षिप्य पश्चाद् अग्नेस्त्रिरात्रं निखाय चतुर्थेऽहनि उद्धृत्य अनेन संपात्य अभिमन्त्र्य अश्नीयात् ।

अत्रोक्तं कौशिकेन ‘एह यन्तु पशवः' ( अ २,२६ ), 'सं वो गोष्ठेन' ( अ ३,१४ ) इति प्रक्रम्य 'गृष्टेः पीयूषं श्लेष्ममिश्रम् अश्नाति। गां ददाति । उदपात्रं निनयति' ( कौसू १९,१४-१७) इत्यादि।


एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष ।

त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यच्छतु ॥१॥

आ । इह । यन्तु । प॒शवः । ये । पराऽईयुः । वायुः । येषाम् । सहऽचारम् । जुजोष ।

त्वष्टा । येषाम् । रूपऽधेयानि । वेद । अस्मिन् । तान् । गोऽस्थे । सविता । नि । यच्छतु ॥ १॥

ये पशवः परेयुः परागताः पराङ्मुखाः पुनरावृत्तिरहिता अगमन् ते सर्वे इह अस्मिन् गोष्ठे आ यन्तु पुनरागच्छन्तु । इण् गतौ। 'इणो यण' (पा ६,४,८१ ) इति यणादेशः। ईयुरिति । अस्मादेव धातोर्लिटि उसि पूर्ववद् यणि कृते 'द्विर्वचनेऽचि' (पा २,१,५९ ) इति स्थानिवद्भावाद् द्विर्वचनम् । 'दीर्घ इणः किति' (पा ७,४,६९) इत्यभ्यासस्य दीर्घः येषां पशूनां वायुः सहचारम् सहसंचरणं जुजोष सेवते तद्रक्षणार्थं सह वर्तते । जुषेर्व्यत्ययेन परस्मैपदम् । गोष्ठाद् विनिर्गतानां गवां वायुरेव रक्षक इत्ययम् अर्थस्तैत्तिरीयके स्पष्टम् आम्नायते -- 'वायवः स्थेत्याह । वायुर्वा अन्तरिक्षस्याध्यक्षः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान् परिददाति' (तैब्रा ३,२,१,३; ४) इति । येषाम् पशूनां त्वष्टा एतन्नामको देवः रूपधेयानि । 'भागरूपनामभ्यो धेयः' ( पावा ५,४,२५ ) इति स्वार्थे धेयप्रत्ययः । गर्भगतवत्सरूपाणि वेद कर्तुं जानाति। करोतीत्यर्थः। ‘यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायते' (तै.सं १,५,९,१) 'त्वष्टा वै पशूनां मिथुनानां रूपकृत्' (तैब्रा ३,८,११,२ ) इत्यादिश्रुतेः । यद्वा रूपधेयानि रूपाणि धेयानि विधातव्यानि वेद । धाञः कर्मणि यत् । 'ईद्यति' (पा ६,४,६५) इति ईत्त्वम् । तान् उक्तान् सर्वान् पशून् अस्मिन् गोष्ठे । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठं तस्मिन् । सविता सर्वप्रेरको देवो नि यच्छतु नियमयतु । यथा पुनर्न गच्छन्ति तथा स्थापयतु इत्यर्थः । निपूर्वाद् यमे शपि 'इषुगमियमां छः' (पा ७,३,७७ ) इति छत्वम् ।


इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् ।

सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यच्छ ॥२॥

इमम् । गोऽस्थम् । पशवः । सम् । स्रवन्तु । बृहस्पतिः । आ । नयतु । प्रऽजानन् ।

सिनीवाली । नयतु । आ । अग्रम् । एषाम् । आऽजग्मुषः । अनुऽमते । नि । यच्छ ॥

पशवः गवाद्या इमम् अस्मदीयं गोष्ठं सं स्रवन्तु संप्राप्नुवन्तु । बृहस्पतिर्देवः प्रजानन् आनयनप्रकारं विद्वान् आ नयतु गोष्ठं प्रापयतु । तथा सिनीवाली एतन्नामिका देवपत्नी दृष्टेन्दुकलामावास्यादेवता वा । एषाम् । कर्मणि षष्ठी । इमान् पशून् अग्रम् पुरोदेशम् आ नयतु । सिनीवालीशब्दो यास्केन बहुधा व्याख्यातः। “सिनीवाली कुहूरिति देवपत्न्याविति नैरुक्ताः । अमावास्ये इति याज्ञिकाः । 'या पूर्वामावास्या सा सिनीवाली । योत्तरा सा कुहूः' (ऐब्रा ७,११) इति विज्ञायते। सिनीवाली। सिनम् अन्नं भवति। सिनाति भूतानि। वालं पर्व वृणोतेस्तस्मिन्नन्नवती, वालिनी वा वालेनेवास्याम् अणुत्वाच्चन्द्रमाः सेवितव्यो भवतीति वा” (नि ११,३१) इति । आजग्मुषः आगतान् पशून् अनुगते हे अनुगमनकारिणि हे देवपत्नि पूर्वपौर्णमास्यभिमानिदेवते वा त्वं नि यच्छ गोष्ठे नियमय । आजग्मुष इति । आङ्पूर्वाद् गमेः क्वसुः। शसि 'वसोः संप्रसारणम्' (पा ६,४,१३१) इति संप्रसारणम् ।


सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः ।

सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥

सम् । सम् । स्रवन्तु । पशवः । सम् । अश्वाः । सम् । ऊं इति । पुरुषाः ।

सम् । धान्यस्य । या । स्फ़ातिः । सम्ऽस्राव्येण । हविषा । जुहोमि ॥ ३॥

पशवः गवाद्याः सं सं स्रवन्तु सम्यग् आगच्छन्तु । 'प्रसमुपोदः पादपूरणे' (पा ८,१,६ ) इति समो द्विर्वचनम् । तथा अश्वाः । सम् इत्युपसर्गश्रवणात् सर्वत्र स्रवन्तु इति संबन्धः । तथा पुरुषाश्च सेवकाद्याः धान्यस्य व्रीहियवादेर्या स्फातिः अभिवृद्धिः सापि सं स्रवतु । अहमपि तत्सिद्धये संस्राव्येण संस्रावणार्हेण आज्येन हविषा जुहोमि ।


सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।

संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥

सम् । सिञ्चामि । गवाम् । क्षीरम् । सम् । आज्येन । बलम् । रसम् । सम्ऽसिक्ताः । अस्माकम् । वीराः । ध्रुवाः । गावः । मयि । गोऽपतौ ॥ ४ ॥ गवाम् । अत्र गोशब्देन गृष्टयो विवक्षिताः । गृष्टीनां क्षीरम् अभिनवं पयः आज्येन सं सिञ्चामि गवां क्षीरं सम् आज्येन संपातयामि । गवाम् इति। 'न गोश्वन्त्साववर्ण' (पा ६,१,१८२) इति विभक्त्युदात्तत्वप्रतिषेधः। तथा आज्येन बलम् बलकरम् अन्नं रसम् उदकं च बलकरं रसमेव वा । सं सिञ्चामीति संबन्धः । अस्माकं वीराः पुत्राद्याः संसिक्ताः घृतादिना संसिक्तशरीराः दृढगात्राः । भवन्तु इति शेषः । तदर्थं गोपतौ गोस्वामिनि मयि गावः ध्रुवाः स्थिरा भवन्तु । गोपताविति । 'पत्यावैश्वर्ये' (पा ६,२,१८ ) इति पूर्वपदप्रकृतिस्वरत्वम्।


आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।

आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥

आ । हरामि । गवाम् । क्षीरम् । आ । अहार्षम् । धान्यम् । रसम् ।

आऽहृताः । अस्माकम् । वीराः । आ । पत्नीः । इदम् । अस्तकम् ॥ ५ ॥

गवां क्षीरम् उक्तप्रयोगेण आ हरामि आनयामि । गोसंपत्त्या बहुतरं क्षीरसंपन्नो भवामीत्यर्थः । तथा धान्यं रसं च आहार्षम् आहृतवान् अस्मि । तथा अस्माकं वीराः पुत्राद्या आहृताः आनीताः प्राप्ताः । पत्नीः पत्न्यश्च । आ इत्युपसर्गश्रवणात् हृता इति संबन्धः । उक्तानां सर्वेषां किं प्रति आहरणम् इति तद् आह -- इदम् संनिहितम् अस्मत्संबन्धि अस्तकम् । अस्तम् इति गृहनाम । स्वार्थे कः। गृहम् । गोधान्यपुत्रादिभिरस्मद्गृहं सर्वतः पूर्णं भवतु इति भावः।

इति द्वितीये काण्डे चतुर्थेऽनुवाके नवमं सूक्तम् ।

समाप्तश्चतुर्थोऽनुवाकः।

सम्पाद्यताम्