← सूक्तं २.२६ | अथर्ववेदः - काण्डं २ सूक्तं २.२७ ऋ. कपिञ्जलः |
सूक्तं २.२८ → |
दे. १-५ वनस्पतिः, ६ रुद्रः ७ इन्द्रः |
नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥
सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥
इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥
पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥
तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥
रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥
तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति ।
अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥
सायणभाष्यम्
पञ्चमेऽनुवाके पञ्च सूक्तानि । तत्र 'नेच्छत्रुः' इति प्रथमेन सूक्तेन विवादजयकर्मणि पाठामूलम् अभिमन्त्र्य खादन् अपराजिताद् देशात् सभास्थानं प्रविशेत् ।
तथा अनेन अभिमन्त्रितां पाठां खादन् प्रतिवादिनं ब्रूयात् ।
एवं पाठामूलं संपात्य अनेनाभिमन्त्र्य बध्नीयात् ।
एवमेव अनेनाभिमन्त्रितां पाठामालां सप्तभिः पत्रैर्विरचितां शिरसि धारयेत् ।
सूत्रितं हि — “ 'नेच्छत्रुः' इति पाटामूलं प्रतिप्राशितम् । अन्वाह । बध्नाति। मालां सप्तपलाशीं धारयति' (कौसू ३८,१८-२१) इति।
तथा 'अपराजितां विजयकामस्य' ( शाक १७,४ ) इति विहितायाम् अपराजिताख्यायां महाशान्तौ पाठामूलमणिबन्धनेऽपि एतत् सूक्तम् । उक्तं शान्तिकल्पे--" 'नेच्छत्रुः' इति पाटामूलम् अपराजितायाम्' (शाक १७,६ ) इति। जयाति सहमानाभिभूरसि। .
नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥
न । इत् । शत्रुः । प्राशम् । जयाति । सहमाना । अभिऽभूः । असि ।
प्राशम् । प्रतिऽप्राशः । जहि । अरसान् । कृणु । ओषधे ॥ १ ॥
हे पाठाख्ये ओषधे शत्रुः प्रतिवादी प्राशम् प्रष्टारं वादिनं त्वत्सेवकं मां नेत् जयाति । इदिति अवधारणे । नैव जयतु । प्राशम् इति । प्रच्छ ज्ञीप्सायाम् इत्यस्मात् 'क्विब्वचि' (पावा ३,२,१७८ ) इत्यादिना क्विप् तत्संनियोगेन दीर्घः संप्रसारणाभावश्च । 'च्छ्वोः शूडनुनासिके च' (पा ६,४,१९) इति सतुक्कस्य छकारस्य शकारः । जयातीति । जयतेर्लेटि आडागमः। यतस्त्वं सहमाना शत्रुसहनस्वभावा अतः अभिभूरसि प्रतिवादिनः शत्रोरमिभवित्री भवसि । एवम् अतिशयितवीर्ययुक्तायास्तव सेवया मां शत्रुर्न जयतु इत्यर्थः। अस्याः सहनशीलत्वं श्रुत्यन्तरे सिद्धवद् आम्नातम् -– 'उत्तानपर्णे सुभगे सहमाने सहस्वति', 'उप तेऽधाँ सहमानाम्' (आपमं १,१५,२;६) इति च । प्राशम् प्रष्टारं वादिनं माम् उद्दिश्य प्रतिप्राशः प्रतिकूलप्रश्नकर्तॄन् प्रतिवादिनो जहि पराजितान् कुरु । 'हन्तेर्जः' (पा ६,४,३६) इति जादेशः । 'असिद्धवदत्राभात्' (पा ६,४,२२) इति तस्यासिद्धत्वात् हेर्लुगभावः। यद्वा प्रतिप्राश इति षष्ठी । प्रतिवादिनः प्राशम् प्रश्नं जहीत्यर्थः । प्रतिपूर्वात् प्रच्छेः पूर्ववत् प्रक्रिया । पराजयप्रकारमेवाह--हे ओषधे प्रतिवादिवाक्यजनिततापापहर्त्रि । ओषः पाकोऽस्यां धीयत इति 'कर्मण्यधिकरणे च' (पा ३,३,९३ ) इति दधातेरधिकरणे किप्रत्ययः । यद्वा ओषे दाहके ज्वरादौ एनां पाठादिरूपां वैद्योपदेशप्रकारेण धयन्ति पिबन्ति आतुरा इति ओषधिः । अपि वा दोषं वातपित्तादिकं धयति पिबति विनाशयतीति ओषधिः । पृषोदरादित्वाद् आदिवर्णलोपः। पक्षद्वयेपि धेटः अनुपसर्गे सुबन्तमात्र उपपदे व्यत्ययेन किप्रत्ययः। अत्र यास्कः -- 'ओषधय ओषद्धयन्तीति वा, ओषत्येना धयन्तीति वा, दोषं धयन्तीति वा' ( नि ९, २७) इति । हे तथाविधौषधे प्रतिवादिनः अरसान् नीरसान् शुष्ककण्ठान् वक्तुम् असमर्थान् कृणु कुरु । यद्वा अरसान् रसरहितवाक्यान् । असंगतप्रलापिनः कुरु इत्यर्थः ।
सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥
सुऽपर्णः । त्वा । अनु । अविन्दत् । सूकरः । त्वा । अखनत् । नसा ।
प्राशम् । प्रतिऽप्राशः । जहि । अरसान् । कृणु । ओषधे ॥२॥
सुपर्णः शोभनपक्षो वैनतेयस्त्वा त्वाम् अन्वविन्दत् विषाद्यपहरणाय अन्विष्य अलभत । विद्लृ लाभे । 'शे मुचादीनाम्' (पा ७,१,५९) इति नुम् । सूकरः आदिवराहस्त्वा त्वां नसा नासिकया तत्सहितया दंष्ट्रया अखनत् विदारितवान् । भूम्या अन्तरवस्थितां त्वां लोकोपकारार्थम् उदहार्षीद् इत्यर्थः। अनेन अस्या अमोघवीर्यत्वम उक्तम् । प्राशं प्रतिप्राशम् इत्यादि गतम्।
इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥
इन्द्रः । ह । चक्रे । त्वा । बाहौ । असुरेभ्यः । स्तरीतवे।
प्राशम् । प्रतिऽप्राशः । जहि । अरसान् । कृणु । ओषधे ॥ ३ ॥
हे पाठे *[त्वा] त्वाम् इन्द्रस्त्रिलोकीपतिः असुरेभ्यः असुरान् तरीतवे तरीतुम् । हिंसितुम् इत्यर्थः । बाहौ दक्षिणभुजे चक्रे कृतवान् धृतवान् । तथा अहमपि प्रतिवादिविजयार्थं त्वाम् । गतम् अन्यत् । असुरेभ्य इति । ‘क्रियाग्रहणं कर्तव्यम्' ( पावा १,४,३२ ) इति कर्मणः संप्रदानत्वात् चतुर्थी । 'तुमर्थे सेसेनसे' ( पा ३,४,९) इत्यादिना तवेन्प्रत्ययः । 'वॄतो वा' (पा ७,२,३८ ) इति इटो दीर्घः।
पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥
पाटाम् । इन्द्रः । वि । आश्नात् । असुरेभ्यः । स्तरीतवे ।
प्राशम् । प्रतिऽप्राशः । जहि । अरसान् । कृणु । ओषधे ॥ ४ ॥
पाठाम् उक्तप्रभावाम् ओषधिम् असुरांस्तरीतुम् इन्द्रो व्याश्नात् । अभक्षयत् । अश भोजने । क्र्यादित्वात् श्नाप्रत्ययः । गतम् अन्यत् ।
तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥
तया । अहम् । शत्रून् । साक्षे । इन्द्रः । सालावृकान्ऽइव ।
प्राशम् । प्रतिऽप्राशः । जहि । अरसान् । कृणु । ओषधे ॥ ५ ॥
या उदीरितप्रभावा पाठा तयाहं धारणभक्षणादिना शत्रून् प्रतिवादिनः साक्षे अभिभवामि । निरुत्तरान् असत्प्रायान् करोमीत्यर्थः । सहतेरभिभवार्थात् लेटि उत्तमे 'सिब्बहुलं लेटि' (पा ३,१,३४ ) इति सिप् । 'सिब्बहुलं छन्दसि णिद् वक्तव्यः' (पावा ३,१,३४ ) इति सिपो णिद्वद्भावाद् वृद्धिः । तत्र दृष्टान्तः -- इन्द्रो देवः सालावृकान् [इव] । अरण्यश्वानः सालावृकाः । तद्रूपान् असुरान् यथा विगीर्णवान् । अयमेवार्थो दाशतय्या स्पष्टम् आम्नातः । 'त्वमिन्द्र सालावृकान्त्सहस्रम् आसन् दधिषे' (ऋ १०,७३,३ ) । इति ।
रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥
रुद्र । जलाषऽभेषज । नीलऽशिखण्ड । कर्मऽकृत् ।
प्राशम् । प्रतिऽप्राशः । जहि । अरसान् । कृणु । ओषधे ॥ ६ ॥
रौति शब्दायते तारकं ब्रह्म उपदिशतीति रुद्रः । तथा च जाबालश्रुतिः-- 'अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे' ( जाउ १) इति । शब्दब्रह्मात्मना रोरूयमाणो द्रवति सर्वप्राणिहृदये वर्तत इति वा, अस्त्रेण छिन्नशिरसं शोचन्तं प्रजापतिम् अनु स्वयमपि शोकवशाद अरोदीद् इति वा, उत्पत्तिकाले स्वयम् अरुदद् इति वा, रोदयति सर्वम् अन्तकाल इति वा रुद्रः। तद् उक्तं यास्केन-- 'रुद्रो रौतीति सतो रोरूयमाणो द्रवतीति वा, रोदयतेर्वा' । यद् अरुदत् तद् रुद्रस्य रुद्रत्वम् इति विज्ञायते । 'यद् अरुदत् तद् रुद्रस्य रुद्रत्वम् इति काठकम् (२५,१) यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम्' (तु. तै १,५,१,१) इति हारिद्रविकम्' (नि १०,५) इति । तथा महोपनिषदि-- तस्य ध्यानान्तस्थस्य ललाटात् त्र्यक्षः शूलपाणिः पुरुषोऽजायत । बिभ्रच्छ्रियं यशः सत्यम्' (महा १) । अथर्वशिरस्यपि - 'संयुगस्यान्तकाले संहृत्य विश्वा भुवनानि गोप्ता तस्माद् उच्यत एको रुद्रः' (तु. अउ ५,४) इति । अथवा रुत् रोदनकरं सांसारिकं दुःखं तद्धेतुभूताम् अविद्यां वा द्रावयति विनाशयतीति रुद्रः। तद् उक्तं वायवीयसंहितायाम् --
'रुद् दुःखं दुःखहेतुर्वा तद् द्रावयति नः प्रभुः ।
रुद्र इत्युच्यते तस्मात् शिवः परमकारणम् ॥' इति ।
हे उक्तमहिमोपेत रुद्र जलाषभेषज । जलाषम् इति सुखनाम । जायन्त इति जाः जनाः। 'डोऽन्यत्रापि दृश्यते' (पावा ३,२,५८) इति जनेः केवलादपि डः । तैर्लप्यते वाञ्छ्यत इति जलाषं सुखम् । जशब्दे उपपदे लषेः कर्मणि घञ् । जलाषं सुखकरं भेषजं यस्य । यद्वा उदकनामैतत् । जलाषम् उदकमात्रं यस्य स्मरणेन भेषजं भवति स तथोक्तः । तस्य ध्येयम् आकारं दर्शयति-- नीलशिखण्ड नीलवर्णकपर्दोपेत । अनेन नित्यतारुण्यम् उक्तम् । हे कर्मकृत् स्वोपासकानां दुष्कर्माणि कृन्ततीति कर्मकृत् । अथवा साध्वसाधुरूपाणि कर्माणि कारयतीति कर्मकृत् । करोतेरन्तर्भा - वितण्यर्थात् क्विप् । 'एष ह्येव साधु कर्म कारयति' ( कौउ ३,९) इत्यादिश्रुतेः । यद्वा सृष्ट्यादीनि पञ्च कृत्यानि करोतीति कर्मकृत् । उक्तं हि--
'पञ्चविधं तत् कृत्यं सृष्टिः स्थितिसंहृती तिरोभावः ।
तद्वद् अनुग्रहकरणं प्रोक्तं सततोदितस्यास्य ॥' इति।
एवंमहानुभाव रुद्र मया सेव्यमानाम् इमां पाठाख्याम् ओषधिं प्रतिवादितिरस्करणसमर्थां कुरु इति शेषः। एवं रुद्रानुगृहीते पाठाख्ये ओषधे । प्राशं प्रतिप्राशो जहीत्यादि पूर्ववत् ।
तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति ।
अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥
तस्य । प्राशम् । त्वम् । जहि । यः । नः । इन्द्र । अभिऽदासति ।
आधि । नः । ब्रूहि । शक्तिऽभिः । प्राशि । माम् । उत्ऽतरम् । कृधि ॥ ७ ॥
हे इन्द्र यः प्रतिवादी नः अस्मान् अभिदासति उपक्षपयति युक्तिभिस्तिरस्करोति । दसु उपक्षये इत्यस्माद् ण्यन्तात् परस्थ शपः 'छन्दस्युभयथा' (पा ३,४,११) इति आर्धधातुकत्वात् ‘णेरनिटि' (पा ६,४,५१) इति णिलोपः । तस्य उपक्षपयितुः प्राशम् प्रतिकूलप्रश्नरूपं वाक्यं त्वं जहि नाशय । तथा शक्तिभिः त्वदीयैः सामर्थ्यविशेषैः नः अस्मान् अधि ब्रूहि अधिकवचनयुक्तान् ग्राह्यवाचः कुरु । फलितम् आह-- प्राशम् प्रष्टारं वादिनं माम् उत्तरम् प्रतिवादिनोऽप्युत्कृष्टतरं कृधि कुरु । 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा ६,४,१०२ ) इति हेर्धिरादेशः।
इति पञ्चमेऽनुवाके प्रथमं सूक्तम् ।