← सूक्तं २.३० | अथर्ववेदः - काण्डं २ सूक्तं २.३१ ऋ. कण्वः |
सूक्तं २.३२ → |
दे. मही, चन्द्रमाः। अनुष्टुप्, २,४ उपरिष्टाद्विराड्बृहती, ३,५ आर्षी त्रिष्टुप्। |
इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।
तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥
दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।
अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।
शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै ॥३॥
अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।
अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।
ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥
सायणभाष्यम्
'इन्द्रस्य या मही' इति सूक्तेन शरीरगतविविधक्रिमिरोगेषु तच्छान्तये घृतमिश्रान् कृष्णचणकान् जुहुयात् ।
तथा गोवालवेष्टितं शरकाण्डं संभिद्य अग्नौ प्रताप्य आदध्यात् ।
एवमेव रथ्यापांसुं सव्यहस्तेनादाय दक्षिणहस्तेन संमृज्य दक्षिणामुखः एतत् सूक्तं जपन् व्याधितस्योपरि किरति।
तथैव एतत् सूक्तं जपन् व्याधितो हस्ताभ्यां पांसुं मर्दयेत् ।
तथा अनेन सूक्तेन पलाशोदुम्बराद्याः समिध आदध्यात् ।
तद् उक्तं कौशिकेन -- " 'इन्द्रस्य या मही' इति खल्वङ्गान् अल्गण्डून् हननान् घृतमिश्रान् जुहोति । बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य संभिनत्ति । प्रतपति । आदधाति । सव्येन दक्षिणामुखः पांसून् उपमथ्य परिकिरति । संमृद्गाति । आदधाति” (कौ २७,१४-२०) इति ।
इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।
तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥
इन्द्रस्य । या । मही । दृषत् । क्रिमेः । विश्वस्य । तर्हणी ।
तया । पिनष्मि । सम् । क्रिमीन् । दृषदा । खल्वान्ऽइव ॥ १ ॥
इन्द्रस्य देवस्य संबन्धिनी या मही महती । अच्छब्दलोपश्छान्दसः । दृषत् शिलास्ति । तामेव विशिनष्टि -– विश्वस्य सर्वस्य क्रिमेस्तर्हणी हन्त्री । तृहेर्हिँसार्थात् करणे ल्युट् । ङीप् । तया उक्तप्रभावया दृषदा क्रिमीन् शरीरान्तर्गतान् सर्वान् क्षुद्रजन्तून् सं पिनष्मि संचूर्णयामि । पिष्लृ संचूर्णने । रुधादित्वात् श्नम् । तत्र दृष्टान्तः -- दृषदा पेषण्या खल्वान् चणकान् इव ।
दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।
अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
दृष्टम् । अदृष्टम् । अतॄहम् । अथो इति । कुरूरुम् । अतृहम् ।
अल्गण्डून् । सर्वान् । शलुनान् । क्रिमीन् । वचसा । जम्भयामसि ॥ २ ॥
दृष्टम् चक्षुर्गोचरम् अदृष्टम् तदगोचरम् अन्तरवस्थितं क्रिमिजातम् अतृहम् तृणेह्मि हन्मि । तृह हिंसायाम् । छान्दसे लुङि व्यत्ययेन च्लेरङ् । अथो अपिच कुरीरम् । कुरीरं जालम् । तद्वद् अन्तरवस्थितं क्रिमिकुलम् अतृहम् । नाशयामीत्यर्थः । तानेव विशेषतो दर्शयति अल्गण्डून् इति । एतन्नाम्नः क्रिमिविशेषान् शल्गान् एतन्नाम्नश्च सर्वान् अन्यानपि क्रिमीन् वचसा मन्त्रेण जम्भयामसि जम्भयामः नाशयामः । जभेर्णौ 'रधिजभोरचि' (पा ७,१,६१) इति नुम् ।
अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।
शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै ॥३॥
अलगण्डून् । हन्मि । महता । वधेन । दूनाः । अदूनाः । अरसाः । अभूवन् ।
शिष्टान् । अशिष्टान् । नि । तिरामि । वाचा । यथा । क्रिमीणाम् । नकिः । उत्ऽशिषातै ॥३॥
अल्गण्डून् शोणितमांसदूषकान् जन्तून् महता प्रभूतेन वधेन हननसाधनेन मन्त्रौषधादिना हन्मि । वधेनेति । 'हनश्च वधः' (पा ३,३,७६ ) इति करणे अप् वधादेशश्च । अल्लोपे उदात्तनिवृत्तिस्वरेण अन्तोदात्तत्वम् । ते च दूनाः मत्कृतौषधादिना परितप्ताः अदूनाः अपरितप्ताश्च ये सन्ति ते सर्वे अरसाः शुष्का निर्जीवा अभूवन् । दूना इति । टुदु उपतापे । तस्मान्निष्ठा । 'दुग्वोर्दीर्घश्च' ( पावा ८,२,४४ ) इति दीर्घो निष्ठानत्वं च । दूङ् परितापे इत्यस्मादेव वा । 'स्वादय ओदितः' इति ओदित्त्वातिदेशाद् ‘ओदितश्च' (पा ८,२,४५) इति निष्ठानत्वम् । तथा शिष्टान् । कान् । अशिष्टान् प्राग् अहतान् क्रिमिविशेषान् वाचा मन्त्रेण नि तिरामि निहन्मि । निपूर्वस्तिरतिर्हिसने। यथा येन प्रकारेण क्रिमीणां नानाविधानां मध्ये कश्चिदपि नकिः उच्छिषातै नैवोच्छिष्यात् । तथा नि तिरामीति संबन्धः। नकिर्नेत्यर्थे । 'नकीम् नकिः आकृतम् इति नवोत्तराणि पदानि' ( निघ ३,१२ ) इत्युक्तत्वात् । उच्छिषातै । शिष्लृ विशेषणे इत्यस्मात् उत्पूर्वात् लेटि आडागमः। व्यत्ययेन आत्मनेपदम् । टेरेत्वे कृते 'वैतोऽन्यत्र' ( पा ३,४,९६ ) इति ऐत्वम् । छान्दसो विकरणस्य लुक् ।
अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।
अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
अनुऽआन्त्र्यम् । शीर्षण्यम् । अथो इति । पार्ष्टेयम् । क्रिमीन् ।
अवस्कवम् । विऽअध्वरम् । क्रिमीन् । वचसा । जम्भयामसि ॥ ४ ॥
अन्वान्त्र्यम् अनुक्रमेण आन्त्रेषु भवं क्रिमिजातं शीर्षण्यम् शिरसि भवं च । उभयत्र 'शरीरावयवाच्च' (पा ४,३,५५) इति यत् । 'ये च तद्धिते' ( पा ६,१,६१ ) इति शिरःशब्दस्य शीर्षन्नादेशः। 'ये चाभावकर्मणोः' (पा ६,४,१६८ ) इति प्रकृतिभावः । 'तित् स्वरितम्' (पा ६,१,१८५ ) इत्युभयत्र स्वरितत्वम् । अथो अपि च पार्ष्णेयम् पार्ष्णिभवं क्रिमिम् । शरीरावयववाचिनः पार्ष्णिशब्दाद् व्यत्ययेन ढञ् । उक्तान् एतान् क्रिमीन् जम्भयामसीत्युत्तरत्र संबन्धः । अवस्कवम् अवाग्गमनस्वभावम् । अन्तरन्तः प्रविश्य वर्तमानम् इत्यर्थः । स्कुञ् आप्रवणे । अस्माद् अवपूर्वात् पचाद्यच् । व्यध्वरम् विविधमार्गोपेतम् । नानाद्वाराणि कृत्वा तत्र गच्छन्तम् इत्यर्थः । विविधोऽध्वा व्यध्वम् । 'उपसर्गादध्वनः' (पा ५,४,८४ ) इत्यच्प्रत्ययः समासान्तः। रो मत्वर्थीयः। यद्वा ध्वरो हिंसा । विविधैरौषधादिभिरपि न विद्यते ध्वरो यस्य स तथोक्तः । एवं नानाजातीयान् सर्वान् क्रिमीन् वचसा मन्त्रेण जम्भयामसि जम्भयामः।
ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।
ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥
ये । क्रिमयः । पर्वतेषु । वनेषु । ओषधीषु । पशुषु । अप्ऽसु । अन्तः ।
ये । अस्माकम् । तन्वम् । आऽविविशुः । सर्वम् । तत् । हन्मि । जनिम । क्रिमीणाम् ॥ ५ ॥
पर्वतादिषु अन्तः मध्ये ये क्रिमयः स्थिताः ते अस्माकं तन्वः तनूः शरीराणि आविविशुः व्रणमुखेन अन्नपानादिद्वारेण वा प्रविष्टाः । सर्वम् निरवशेषं तत् उक्तविधं क्रिमीणां जनिम जन्म उत्पत्तिमेव हन्मि नाशयामि ।
इति द्वितीयकाण्डे पञ्चमेऽनुवाके पञ्चमं सूक्तम् ।
इति पञ्चमोऽनुवाकः।