← सूक्तं २.३१ अथर्ववेदः - काण्डं २
सूक्तं २.३२
ऋ. कण्वः
सूक्तं २.३३ →
दे. आदित्यः। अनुष्टुप्, १ त्रिपाद्भुरिग्गायत्रीः, ६ चतुष्पान्निचृदुष्णिक्।

उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।
ये अन्तः क्रिमयो गवि ॥१॥
विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।
शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥
अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।
अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥
हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।
हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥
हतासो अस्य वेशसो हतासः परिवेशसः ।
अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥
प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।
भिनद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥


सायणभाष्यम्

षष्ठेऽनुवाके पञ्च सूक्तानि । तत्र 'उद्यन्नादित्यः' इति प्रथमसूक्तेन गोक्रिमिभैषज्यकर्मणि संध्यात्रयेऽपि क्रिमियुतव्रणमुखं दर्भेस्ताडयेत् ।

तथा अनेन सूक्तेन साज्यकृष्णचणकहोमादिकं पूर्वसूक्तोक्तप्रकारेणैव कुर्यात् ।

सूत्रितं हि-- " 'उद्यन्नादित्यः' इत्युद्यति गोनामेत्याह असाविति । सूक्तान्त 'ते...हताः' इति दर्भैरभ्यस्यति । मध्यंदिने च। प्रतीचीम् अपराह्ने । बालस्तुकाम् आच्छिद्य खल्वादीन्' (कौसू २७, २१-२६) इति ।


उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।

ये अन्तः क्रिमयो गवि ॥१॥

उत्ऽयन् । आदित्यः । क्रिमीन् । हन्तु । निऽम्रोचन् । हन्तु । रश्मिऽभिः।

ये। अन्तः । क्रिमयः । गवि ॥ १॥

आदित्यः उद्यन् उदयं प्राप्नुवन् रश्मिभिर्व्यापनशीलैः स्वकिरणैः क्रिमीन् हन्तु हिनस्तु । निम्रोचन् अस्तं गच्छंश्च रश्मिभिः क्रिमीन् हन्तु । रश्मिभिरिति । 'अशे रश च' (पाउद १,१५) इति मिप्रत्ययो रशादेशश्च । कुत्रत्यान् क्रिमीन् इति तत्राह--ये क्रिमयः गवि । जातावेकवचनम् । गोशरीरेषु अन्तः मध्ये सन्ति । तान् क्रिमीन् इति पूर्वत्र संबन्धः।


विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।

शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥

विश्वऽरूपम् । चतुःऽअक्षम् । क्रिमिम् । सारङ्गम् । अर्जुनम् ।

शृणामि । अस्य । पृष्टीः । अपि । वृश्चामि । यत् । शिरः ॥२॥

विश्वरूपम् नानाकारं चतुरक्षम् चतुर्नेत्रम् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्' (पा ५, ४,११३) इति षच् समासान्तः । सारङ्गम् शबलवर्णम् अर्जुनम् शुभ्रवर्णम् एवम् अनेकाकारं क्रिमिं शृणामि हन्मि । शॄ हिंसायाम् । 'प्वादीनां ह्रस्वः' (पा ७,३,८०) । अस्य उक्तलक्षणस्य क्रिमेः पृष्टीः पार्श्वावयवान् अपि यच्छिरः शरीरान्तर्गतमांसादिभक्षकं प्रधानम् अङ्गं तदपि वृश्चामि छिनद्मि।


अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।

अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥

अत्रिऽवत् । वः । क्रिमयः । हन्मि । कण्वऽवत् । जमदग्निऽवत् ।

अगस्त्यस्य । ब्रह्मणा । सम् । पिनष्मि । अहम् । क्रिमीन् ॥ ३॥

हे क्रिमयः वः युष्मान् अत्रिवत् कण्ववत् जमदग्निवत् । सर्वत्र प्रथमार्थे वतिः । ते यथा मन्त्रसामर्थ्यात् क्रिमीन् निघ्नन्ति एवम् अहम् अपि हन्मि । तथा अगस्त्यस्य महर्षेब्रह्मणा मन्त्रेण अहं किमीन् सर्वान् सं पिनष्मि पुनरुद्भवो यथा न भवति तथा नाशयामि । एतेषां क्रिमिनिवारकत्वं श्रुत्यन्तरे प्रसिद्धम् -– 'अत्रिणा त्वा क्रिमे हन्मि कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः' (तैआ ४,३६,१) इति ।


हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।

हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥

हतः । राजा । क्रिमीणाम् । उत । एषाम् । स्थपतिः । हतः ।

हतः । हतऽमाता । क्रिमिः । हतऽभ्राता । हतऽस्वसा ॥ ४ ॥

क्रिमीणां राजा हतः अस्मत्प्रयुक्तमन्त्रौषधादिना नष्टः । उत अपि च एषां क्रिमीणां स्थपतिः सचिवो हतः । एवं हतमाता नष्टमातृकः हतभ्राता हतभ्रातृकः हतस्वसा नष्टभगिनीकश्च क्रिमिर्हतः नष्टः । सस्वामिकं सामात्यं सबान्धवं कृत्स्नं क्रिमिकुलं निरवशेषं नष्टम् इत्यर्थः। हतमातेत्यादिषु 'नद्यृतश्च' (पा ५,४,१५३ ) इति नित्यं प्राप्तस्य कपः 'ऋतश्छन्दसि' (पा ५,४,१५८) इति प्रतिषेधः।


हतासो अस्य वेशसो हतासः परिवेशसः ।

अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥

हतासः । अस्य । वेशसः । हतासः । परिऽवेशसः ।

अथो इति । ये । क्षुल्लकाःऽइव । सर्वे । ते । क्रिमयः । हताः ॥ ५ ॥

अस्य क्रिमिकुलस्य वेशसः निवेशनस्थानानि मुख्यगृहा हतासः हताः । एवं परिवेशसः परितः स्थिताः समीपगृहाश्च हतासः हताः। वेशसः। विशतेरधिकरणे औणादिकः असिप्रत्ययः । अथो अपिच ये क्षुल्लका इव बीजावस्थाः सूक्ष्मरूपा दुर्लक्षाः क्रिमयः सन्ति ते सर्वेऽपि क्रिमयः हताः नाशिताः।


प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।

भिनद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥

प्र ते । शृणामि । शृङ्गे इति । याभ्याम् । विऽतुदायसि ।

भिनद्मि । ते । कुषुम्भम् । यः । ते । विषऽधानः ॥६॥

हे क्रिमे ते त्वदीये शृङ्गे विषाणे प्र शृणामि प्रभिनद्मि याभ्यां शृङ्गाभ्यां वितुदायसि विशेषेण तुदसि व्यथयसे । ते इति संबन्धः। तुद व्यथने इत्यस्मात् परस्य शस्यापि व्यत्ययेन शायजादेशः । ते तव षुकम्भम् अवयवविशेषं भिनद्मि विदारयामि । तमेवावयवं विशिनष्टि--ते तव संबन्धी यः अवयवः विषधानः । विषं धीयतेस्मिन्निति विषधानः विषस्थानम् । तम् इति पूर्वत्र संबन्धः। 'करणाधिकरणयोश्च' (पा ३,३,११७ ) इत्यधिकरणे ल्युट् ।


इति षष्ठेऽनुवाके प्रथमं सूक्तम् ।


टिप्पणी

कृमि उपरि पौराणिकसंदर्भाः

द्र. शालग्राम उपरि टिप्पणी

क्रिमीणां उपद्रवे साज्यं कृष्णचणकानां होमस्य यः सूक्तविनियोगः अस्ति, तत् बहुमूल्यमस्ति। यदि मूत्रविसर्जने ज्वलनमस्ति, तस्य बहवः निदानाः भवितुं शक्यन्ते, किन्तु स्वभोजने कृष्णचणकस्य प्रयोगं प्रथमदृष्ट्या हितकरमस्ति। कृष्णचणके क्रिमीणां नियन्त्रणस्य अद्भुत सामर्थ्यः अस्ति। ब्रह्मचर्यपालने चणकाः साहाय्याः सन्ति, अयं सार्वत्रिकरूपेण ज्ञातः अस्ति। अयमपि सत्यमस्ति यत् चणकानां अतिसेवनम् स्वास्थ्यवर्धकः नास्ति।आधुनिकविज्ञानानुसारेणचणकस्य सेवनेन आन्त्रे ब्यूटाइरेट संज्ञकानां वसीयअम्लानां जननं भवति। एते ब्यूटाइरेटाः कोशिकानां विभाजनस्य रोधनं कुर्वन्ति, येषां कोशिकानां जननं सम्यक् रूपेण न अस्ति, तेषां एपोप्टोसिसं(अस्तित्वसमापनम्) कुर्वन्ति