← सूक्तं ४.१३ | अथर्ववेदः - काण्डं ४ सूक्तं ४.१४ भृगुः |
सूक्तं ४.१५ → |
आज्यं, अग्निः। त्रिष्टुप्, ...... |
अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे ।
तेन देवा देवतामग्र आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥१॥
क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।
दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥
पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।
दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥३॥
स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥
अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषाणाम् ।
इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥५॥
अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम् ।
तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥६॥
पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् ।
प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥
प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् ।
ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥८॥
शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् ।
स उत् तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥
सायणभाष्यम्
'अजो ह्यग्नेः' इति सूक्तेन अजौदनसवे हविरभिमर्शनादिकं कुर्यात् । सूत्रितं हि -तस्मिन्नन्वारब्धं दातारं वाचयति । तन्त्रं सूक्तं पच्छस्नानेन यौ ते पक्षौ इत्युपक्रम्य 'क्रमध्वम् अग्निना नाकम्' (२), 'पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम्' (३) ‘स्वर्यन्तो नापेक्षन्ते' ( [ ४ कौसू ६८,२५-२७ ]) इति ।
'क्रमध्वम् अग्निना' इत्याद्यास्तिस्रः सर्वेषु सवयज्ञेषु वाचने विनियुक्ताः।
'अजो ह्यग्नेः' इत्यनया ऋचा अग्निचयने उपधीयमानम् अजशिरोऽनुमन्त्रयेत। 'अजो हि' इत्यजशिरः (वैताश्रौ २९,३) इति हि वैतानं सूत्रम् ।
'अग्ने प्रेहि' इत्यनया सर्वेषु सवयज्ञेषु आज्यं जुहुयात् । सूत्रितं हि - 'अग्ने प्रेहि' (५), 'समाचिनुष्व' (शौ ११,१,३६ ) इत्याज्यं जुहुयात् ( कौसू ६३,९) इति।
'अजम् अनज्मि' (६) इत्यनया अजौदनसवे दर्भेषूद्धृतं पाशुकं हविः आज्येनाभ्यञ्ज्यात् । सूत्रितं हि - उद्धृतम् 'अजम् अनज्मि' इत्याज्येनानक्ति (कौसू ६४,१७ ) इति ।
'पञ्चौदनम्' (७,८) इति द्वाभ्यां सवयज्ञे पञ्चधाविभक्तौदनसहितान् शिरःपार्श्वाद्यवयवान् प्राच्यादिदिक्षु स्थापयेत् । सूत्रितं हि- 'पञ्चौदनम्' इति मन्त्रोक्तम् ओदनान् पृथक्पादेषु निदधाति मध्ये पञ्चमम् (कौसू ६४,१८-२०) इति।
'शृतम् अजम्' (९) इत्यनया शिरःपादाद्यवयवोपेतं चर्म जुहुयात् । सूत्रितं हि - 'शृतम् अजम्' इत्यनुबद्धशिरःपादम् अजस्य चर्म ( कौसू ६४,२१) इति ।
वाजपेये 'पृष्ठात् पृथिव्याः' ( ३ ) इत्येतां यूपम् आरुह्य यजमानो जपेत् । उक्तं वैताने वाजपेयं प्रक्रम्य - 'पृष्ठात् पृथिव्या अहम्' इत्यारूढः (वैताश्रौ २७,६, ७ ) इति ।
वरुणप्रघासाख्ये पर्वणि अग्निप्रणयनकाले 'अग्ने प्रेहि' (५) इति ब्रह्मा जपन् गच्छेत् । तद् उक्तं वैताने - आषाढ्यां वरुणप्रघासेऽग्नौ प्रणीयमाने 'अग्ने प्रेहि' इति जपन्नेति' (वैताश्रौ ८,१७) इति।
सोमयागे उत्तरवेद्यग्निप्रणयनेपि एषा जप्या। उक्तं वैताने- “अग्नौ प्रणीयमाने 'अग्ने प्रेहि' इति जपित्वा बहिर्वेद्युपविशति" (वैताश्रौ १५,७ ) इति ।
अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑।
तेन॑ दे॒वा दे॒वता॒मग्रा॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ।।१।।
अजः । हि । अग्नेः । अजनिष्ट । शोकात् । सः । अपश्यत् । जनितारम् । अग्रे।
तेन । देवाः । देवताम् । अग्रे। आयन् । तेन । रोहान् । रुरुहुः । मेध्यासः ॥ १॥
अजः छागः अग्नेः शोकात् तापाद् अजनिष्ट उदपद्यत । हिशब्दः श्रुत्यन्तरप्रसिद्धिं द्योतयति । तथा च तैत्तिरीयके अजस्याग्निसकाशात् उत्पत्तिराम्नाता - स आत्मनो वपाम् उदक्खिदत् । ताम् अग्नौ प्रागृह्णात् । ततोजस्तूपरः समभवत्' (तै २, १,१,४) इति । सः जातोजः अग्रे सर्वप्रजापतिपशुसृष्टेः प्राग् जनितारम् जनयितारं प्रजापतिम् अग्निं वा अपश्यत् दृष्टवान् । जनयितृगौरवेण आत्मनो गौरवम् अज्ञासीद् इत्यर्थः । 'जनिता मन्त्रे' (पा ६,४,५३ ) इति णिलोपो निपात्यते। तेन प्रथमसृष्टेन अजेन देवाः इन्द्रादयः देवताम् देवत्वं देवभावम् अग्रे सृष्ट्यादौ आयन् तत्साध्ययागद्वारा प्राप्नुवन् । देवताम् इति । 'तस्य भावस्त्वतलौ' (पा ५,१, ११९) इति तल्प्रत्ययः । तथा मेध्यासः मेधार्हाः । 'छन्दसि च' (पा ५,१,६७) इति यत्प्रत्ययः । 'आज्जसेरसुक्' (पा ७,१,५०) । यज्ञार्हा अन्येपि ऋषिजनाः रोहान् । रोह्यन्ते प्राप्यन्त इति रोहाः स्वर्गादिलोकाः । रुहेर्ण्यन्तात् कर्मणि घञ् । तान् तेन अजेन साधनेन यागद्वारा रुरुहुः आरूढवन्तः । तस्माद् ईदृक्साधनकः अजौदनसवो देवत्वादिसर्वफलप्राप्तिसाधक इत्यर्थः।
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः।
दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ।।२।।
क्रमध्वम् । अग्निना । नाकम् । उख्यान् । हस्तेषु । बिभ्रतः ।
दिवः । पृष्ठम् । स्वः । गत्वा । मिश्राः । देवेभिः । आध्वम् ॥ २ ॥
हे जनाः अग्निना सवयज्ञार्थम् उत्पादितेन तत्साध्यान् सवयज्ञान् अनुष्ठाय तत्फलभूतं नाकम् दुःखसंभेदरहितम् उत्तमं लोकं क्रमध्वम् आरोहत । कथंभूताः सन्तः। अक्षान् अक्षवत् प्रकाशकान् अनुष्ठितान् यज्ञान् हस्तेषु बिभ्रतः धारयन्तः । यागादिजनितसुकृतविशेषान् अवलम्ब्य तत्फलभूतं लोकं प्राप्नुतेत्यर्थः। क्रमध्वम् इति । 'अनुपसर्गाद् वा' (पा १,३,४३ ) इति क्रमेरात्मनेपदम् । बिभ्रत इति । डुभृञ् धारणपोषणयोः। अस्मात् लटः शत्रादेशः। 'भृञामित्' (पा ७,४,७६ ) इति अभ्यासस्य इत्त्वम् । 'अभ्यस्तानामादिः' (पा ६,१,१८९ ) इति आद्युदात्तः। तदनन्तरं दिवः अन्तरिक्षस्य पृष्ठम् पृष्ठवंशवद् उन्नतप्रदेशं स्वः स्वर्गाख्यं लोकं गत्वा प्राप्य देवेभिः देवैः आजानशुद्धैः मिश्राः मिश्रिताः समानैश्वर्येण एकीभूताः आध्वम् उपविशत । 'षष्ठ्याः पतिपुत्र' (पा ८,३,५३ ) इति दिवो विसर्जनीयस्य सत्वम् । देवेभिरिति । 'बहुलं छन्दसि' (पा ७,१,१०) इति भिस ऐसभावः। ततो 'बहुवचने झल्येत्' (पा ७,३,१०३) इति एत्त्वम् । आध्वम् इति । आस उपवेशने । अदादित्वात् शपो लुक् । 'झलां जश् झशि' (पा ८,४,५३ ) इति सकारस्य जश्त्वम् । दकारः।
पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्।
दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ।।३।।
पृष्ठात् । पृथिव्याः। अहम् । अन्तरिक्षम् । आ । अरुहम् । अन्तरिक्षात्। दिवम् । आ। अरुहम् ।
दिवः । नाकस्य । पृष्ठात् । स्वः । ज्योतिः । अगाम् । अहम् ॥ ३ ॥
पृथिव्याः पृष्ठात् भूलोकाद् अहम् अन्तरिक्षम् आरुहम् अन्तरिक्षलोकम् आरोहामि । रुहेश्छान्दसो लुङ् । 'कृमृदृरुहिभ्यश्छन्दसि' (पा ३,१,५९) इति च्लेः अङ् आदेशः । तस्माद् अन्तरिक्षात् अन्तरिक्षलोकाद दिवम् द्युशब्दवाच्यं तृतीयं लोकम् आरुहम् आरोहामि । नाकस्य नास्मिन् अकं दुःखम् अस्तीति नाकः तादृशस्य दिवः द्युलोकस्य पृष्ठात् उपरिदेशात् स्वः । आदित्यनामैतत् । आदित्यमण्डलस्थं हिरण्मयपुरुषाख्यं ज्योतिः अहम् अगाम् प्राप्नोमि। एतेश्छान्दसो लुङ् । 'इणो गा लुङि' (पा २,४,४५) इति गादेशः। इत्थं सोपानक्रमेण पृथिव्यादिलोकेषु नानाविधान् भोगान् भुक्त्वा अन्ते सूर्यसायुज्यं प्राप्नोतीत्यर्थः ।
स्व॑१र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी।
य॒ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वांसो वितेनि॒रे ।।४।।
स्वः । यन्तः । न । अप । ईक्षन्ते । आ । द्याम् । रोहन्ति । रोदसी इति ।
यज्ञम् । ये । विश्वतःऽधारम् । सुऽविद्वांसः । विऽतेनिरे ॥ ४ ॥
स्वः स्वर्गं यज्ञफलभूतं यन्तः गच्छन्तः नापेक्षन्ते पुत्रपश्वादिजनितम् ऐहिकसुखम् अल्पं नेच्छन्ति । किं तु द्याम् अन्तरिक्षं रोदसी द्यावापृथिव्यौ चेति लोकत्रयं प्रागुक्तरीत्या आ रोहन्ति । के पुनस्ते। ये यजमानाः विश्वतोधारम् विश्वतः सर्वतो धारकम् यद्वा विश्वतः सर्वतो धारकाः अविच्छिन्नफलप्राप्त्युपाया यस्मिंस्तादृशम् यज्ञं सुविद्वांसः सुष्ठु जानन्तः वितेनिरे वितन्वन्ति विस्तारयन्ति । छान्दसो वर्तमाने लिट् । ते स्वर्यन्तः इति संबन्धः।
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षाणाम्।
इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ।।५।।
अग्ने । प्र । इहि । प्रथमः । देवतानाम् । चक्षुः। देवानाम् । उत । मानुषाणाम् ।
इयक्षमाणाः । भृगुऽभिः । सऽजोषाः । स्वः। यन्तु । यजमानाः । स्वस्ति ॥ ५ ॥
हे प्रणीयमान अग्ने त्वं प्रेहि प्रगच्छ आहवनीयदेशं प्राप्नुहि । कीदृशस्त्वम् । देवतानाम् यष्टव्यानां प्रथमः मुख्यः। अत एव दर्शपूर्णमासयोस्तावद् अग्निः प्रथमम् इज्यते । चातुर्मास्येषु च पञ्चसंचरेषु आग्नेयः प्रथमो यागः। सोमयागे च दीक्षणीयायाम् आग्नावैष्णवयागे अग्निः प्रथमभावी। अत एव मन्त्रवर्णः - 'अग्निरग्रे प्रथमो देवतानाम्' (तैब्रा २,४,३.३ ) इति । तथा देवानाम् इन्द्रादीनां हविर्वहनेन अयम् अग्निः चक्षुः चक्षुरिन्द्रियवत् प्रियः । उत अपि च मानुषाणाम् मनोरपत्यभूतानां मनुष्याणां चक्षुः आहवनीयादिरूपेण पुण्यलोकस्य दर्शयिता। 'मनोर्जातावञ्यतौ षुक् च' (पा ४,१,१६१ ) इति अञ्प्रत्ययः षुगागमश्च । यस्माद् एवम् अग्निर्देवानां मानुषाणां च चक्षुः तस्मात् तदीयप्रकाशेन इयक्षमाणाः प्रथमं यष्टुम् इच्छन्तः पश्चाद् यजमानाः यागं कुर्वाणाश्च जनाः भृगुभिः एतत्संज्ञैर्महर्षिभिः सजोषाः समानप्रीतयः सन्तः स्वः स्वर्गं कर्मफलभूतं स्वस्ति क्षेमेण यन्तु प्राप्नुवन्तु । इयक्षमाणा इति। यजेः सन् 'सन्यतः' (पा ७,४,७९ ) इति अभ्यासस्य इत्त्वे आदिवर्णलोपश्छान्दसः। सजोषाः। जुषी प्रीतिसेवनयोः। भावे घञ् । ततो बहुव्रीहौ 'समानस्य छन्दसि” (पा ६,३,८४ ) इति सभावः। 'परादिश्छन्दसि बहुलम्' (पा ६,२,१९९) इति उत्तरपदाद्युदात्तत्वम् । यद्वा समानं जोषमाणाः प्रीयमाणाः । असुनि सुपां सुलुक् (पा ७,१,३९) इति जसः सुः। कृदुत्तरपदप्रकृतिस्वरत्वम्।।
अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म्।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्व॑रा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ।।६।।
अजम् । अनज्मि । पयसा । घृतेन । दिव्यम् । सुऽपर्णम् । पयसम् । बृहन्तम् ।
तेन । गेष्म । सुऽकृतस्य । लोकम् । स्वः । आऽरोहन्तः । अभि । नाकम् । उतऽतमम् ।।६।।
हवीरूपम् आपन्नम् अजं पयसा पयोविकारेण पयोवद् रसवता वा घृतेन आज्येन अनज्मि अभिघारयामि । अञ्जू व्यक्तिम्लक्षणकान्तिगतिषु । रुधादित्वात् श्नम् । 'श्नान्नलोपः' ( पा ६,४,२३ )। कीदृशम् अजम् दिव्यम् दिवि भवं द्युलोकार्हं वा सुपर्णम् शोभनपक्षयुक्तं पयसम् । छान्दसो वर्णविकारः । वयसं पक्षिरूपमापन्नं बृहन्तम् महान्तं यजमानं स्वर्गं प्रापयितुं शक्तम् । तेन ईदृक्प्रभावेन अजेन सुकृतस्य पुण्यस्य फलभूतं लोकं गेष्म वयं गच्छेम । ततश्च उत्तमम् उत्कृष्टं नाकम् दुःखसंस्पर्शशून्यं स्वः स्वर्गं सूर्यात्मकं वा परमं ज्योतिः अभि आरोहन्तः अभिगच्छन्तः भवेमेत्यर्थः ।
पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्दर्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्।
प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ।।७।।
पञ्चऽओदनम् । पञ्चऽभिः। अङ्गुलिऽभिः । दर्व्या । उत् । हर । पञ्चऽधा । एतम् । ओदनम् ।
प्राच्याम् । दिशि । शिरः । अजस्य । धेहि । दक्षिणायाम्। दिशि । दक्षिणम् । धेहि । पार्श्वम्॥७॥
हे पाचक पञ्चौदनम् पञ्चधा विभक्तम् ओदनम् । 'दिक्संख्ये संज्ञायाम्' (पा २,१,५० ) इति समासः। पञ्चभिरङ्गुलिभिः करणैः दर्व्या साधनेन उद्धर । स्थाल्याः सकाशाद् उद्धृत्य बर्हिषि स्थापयेत्यर्थः । एतम् उद्धृतम् ओदनं पञ्चधा विभज्य तत्र एकं भागम् अजस्य पक्वं शिरः शिरोगतमांसं च प्राच्यां दिशि धेहि स्थापय । पुनः एकम् ओदनभागम् अजस्य दक्षिणम् पार्श्वम् दक्षिणपार्श्वस्थं मांसं च दक्षिणायाम् दक्षिणस्यां दिशि धेहि स्थापय ।
प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्।
ऊ॒र्ध्वायां॑ दि॒श्य॑१जस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ।।८।।
प्रतीच्याम् । दिशि । भसदम् । अस्य । धेहि । उत्तरस्याम् । दिशि । उत्तरम्। धेहि। पार्श्वम् ।
ऊर्ध्वायाम् । दिशि । अजस्य । अनूकम् । धेहि। दिशि । ध्रुवायाम् । धेहि। पाजस्यम् । अन्तरिक्षे । मध्यतः । मध्यम् । अस्य ॥ ८॥
प्रतीच्याम् पश्चिमायां दिशि अस्य अजस्य भसदम् । भसत् कटिप्रदेशः । तत्रत्यं मांसम् ओदनभागसहितं धेहि स्थापय । उत्तरस्याम् उदीच्यां दिशि ओदनभागसहितम् उत्तरं पार्श्वम् उत्तरपार्श्वसंबन्धि मांसं धेहि । तथा ऊर्ध्वायां दिशि अस्य अजस्य अनूकम् पृष्ठवंशस्थं मांसम् ओदनभागसहितं धेहि स्थापय । ध्रुवायाम् स्थिरायां भूम्यात्मिकायाम् अधस्ताद् दिशि पाजस्यम् । पाज इति बलनाम । तत्र हितम् उदरगतम् ऊवध्यं धेहि स्थापय । निखनेत्यर्थः। मध्यतः मध्यभागे अन्तरिक्षे आकाशे अस्य अजस्य मध्यम् शरीरमध्यवर्ति आकाशम् संयोजयेत्यर्थः।
शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम्।
स उत्ति॑स्ठे॒तो अ॑भि॒ नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु ।।९।।
शृतम् । अजम् । शृतया । प्र । ऊर्णुहि । त्वचा । सर्वैः । अङ्गैः । सम्ऽभृतम् । विश्वऽरूपम् ।
सः। उत् । तिष्ठ । इतः । अभि । नाकम् । उत्ऽतमम् । पत्ऽभिः । चतुःऽभिः। प्रति। तिष्ठ । दिक्षु॥
हे शमितः शृतम् पक्वम् अजं श्रथया विशसनेन विभक्तया त्वचा तदीयेन चर्मणा सपादवालशीर्षेण प्रोर्णुहि प्रकर्षेण च्छादय । ऊर्णुञ् छादने । कीदृशम् अजम् । सर्वैः अशेषैः अङ्गैः हस्तपादाद्यवयवैः संभृतम् संयुक्तं विश्वरूपम् सर्वाकारम् । हे अज स तादृशः सर्वाङ्गसहितस्त्वम् उत्तमम् उत्कृष्टं नाकम् स्वर्गम् अभिलक्ष्य इतः अस्माद भूलोकाद उत् तिष्ठ उद्गच्छ। ऊर्ध्वकर्मत्वाद् आत्मनेपदाभावः। तथा चतुर्भिः पद्भिः पादैः दिक्षु प्राच्यादिषु चतसृषु प्रति तिष्ठ प्रतिष्ठितो भव । पद्भिरिति । ‘पद्दन्' (पा ६,१,६३ ) इत्यादिना पादशब्दस्य पद् आदेशः। 'ऊडिदंपदादि' (पा ६,१,१७१ ) इति विभक्त्युदात्तत्वम् । चतुर्भिरिति । 'झल्युपोत्तमम्' (पा ६,१,१८० ) इति उकार उदात्तः । दिक्ष्विति ‘सावेकाचः” (पा ६,१,१६८ ) इति विभक्तेरुदात्तत्वम् ।
इति चतुर्थं सूक्तम् ।
टिप्पणी
इन्दूरु नगरतः स्व. डा. कृष्णलाल शुक्लानुसारेण, निषेचितस्य वीर्यस्य अंशमात्रमेव अनादिष्टासु कोशिकासु (स्टेम सैल) परिवर्तितं भवति। प्रस्तुतसूक्तस्यानुसारेण, अनादिष्टानां कोशिकानां(आज्यस्य) नियन्त्रणं एवंप्रकारेण भवितुं अपेक्षितं अस्ति येन ऊर्ध्वमुखी एवं तिर्यक् विकासौ संभवौ स्तः। वैदिकवाङ्मये उल्लेखमस्ति यत् आज्यः अनादिष्टः अस्ति (शब्रा. १.३.२.६। शब्रा १.६.१.२० अनुसारेण आज्यानि अनिरुक्तानि सन्ति। अयं संकेतमस्ति यत् आज्यस्य प्रवृत्तिः दिष्टप्रकारे रूपांतरणस्य अस्ति यस्योपरि नियन्त्रणस्य आवश्यकता अस्ति। पशूनां देहे या मज्जा अस्ति, तस्याः सतत् रूपान्तरणं अनुर्वरात्मकप्रकारे (apoptic) भवति। मज्जापि आज्यस्य एकं रूपमस्ति (शब्रा. १२.९.१.११)