← सूक्तं ५.०७ अथर्ववेदः - काण्डं ५
सूक्तं ५.८
अथर्वा
सूक्तं ५.०९ →
दे. नानादैवत्यं, १,२ अग्निः, ३ विश्वे देवाः, ४-९ इन्द्रः। अनुष्टुप्, - ---

वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह ।
अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥
इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु ।
इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे ।
तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥
यदसावमुतो देवा अदेवः संश्चिकीर्षति ।
मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥
अति धावतातिसरा इन्द्रस्य वचसा हत ।
अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥
यममी पुरोदधिरे ब्रह्माणमपभूतये ।
इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।
तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥
यान् असावतिसरांश्चकार कृणवच्च यान् ।
त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥
यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् ।
कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥
अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य ।
अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव ।
अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥