← सूक्तं ५.०९ अथर्ववेदः - काण्डं ५
सूक्तं ५.१०
ऋषिः - ब्रह्मा।
सूक्तं ५.११ →
दे. वास्तोष्पतिः। १-६ यवमध्या त्रिपदा गायत्री, ....

अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्।
एतत्स ऋच्छात्॥१॥
अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्।
एतत्स ऋच्छात्॥२॥
अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्।
एतत्स ऋच्छात्॥३॥
अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्।
एतत्स ऋच्छात्॥४॥
अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्।
एतत्स ऋच्छात्॥५॥
अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्।
एतत्स ऋच्छात्॥६॥
अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्।
एतत्स ऋच्छात्॥७॥
बृहता मन उप ह्वये मातरिश्वना प्राणापानौ ।
सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् ।
सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥८॥