अथर्ववेदः - काण्डं ६ सूक्तं ६.००१ ऋषिः - अथर्वा |
सूक्तं ६.००२ → |
दे. सविता। उष्णिक्, .......। |
दोषो गाय बृहद्गाय द्युमद्धेहि ।
आथर्वण स्तुहि देवं सवितारम् ॥१॥
तमु ष्टुहि यो अन्तः सिन्धौ सूनुः ।
सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥
स घा नो देवः सविता साविषदमृतानि भूरि ।
उभे सुष्टुती सुगातवे ॥३॥