← सूक्तं ६.००१ अथर्ववेदः - काण्डं ६
सूक्तं ६.००२
ऋषिः - अथर्वा
सूक्तं ६.००३ →
दे. सोमो वनस्पतिः। परोष्णिक्

अनेन तृचेन सोमयागे द्रोणकलशस्थं सोमं ब्रह्मा अनुमन्त्रयेत(वैतान श्रौ.सू. १६.१३)

इन्द्राय सोममृत्विजः सुनोता च धावत ।
स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥
आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः ।
विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
युवा जेतेशानः स पुरुष्टुतः ॥३॥