← सूक्तं ६.०१३ अथर्ववेदः - काण्डं ६
सूक्तं ६.०१४
ऋषिः - बभ्रुपिङ्गलः।
सूक्तं ६.०१५ →
दे. बलासः। अनुष्टुप्।

अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् ।
बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥१॥
निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा ।
छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव ॥२॥
निर्बलासेतः प्र पताशुङ्गः शिशुको यथा ।
अथो इत इव हायनोऽप द्राह्यवीरहा ॥३॥