← सूक्तं ६.०१४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०१५
ऋषिः - उद्दालकः
सूक्तं ६.०१६ →
दे. वनस्पतिः।

उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति ॥१॥
सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।
तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥२॥
यथा सोम ओषधीनामुत्तमो हविषां कृतः ।
तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥३॥