← सूक्तं ६.०२० | अथर्ववेदः - काण्डं ६ सूक्तं ६.०२१ ऋषिः - शन्तातिः |
सूक्तं ६.०२२ → |
दे. चन्द्रमाः। अनुष्टुप्। |
इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा ।
तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥
श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् ।
सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥
रेवतीरनाधृषः सिषासवः सिषासथ ।
उत स्थ केशदृंहणीरथो ह केशवर्धनीः ॥३॥