← सूक्तं ६.०२१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०२२
ऋषिः - शन्तातिः
सूक्तं ६.०२३ →
दे. १ आदित्यरश्मिः, २-३ मरुतः। त्रिष्टुप् , २ चतुष्पदा भुरिग्जगती।

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥
पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।
ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥
उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति ।
एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥