← सूक्तं ६.०२३ अथर्ववेदः - काण्डं ६
सूक्तं ६.०२४
ऋषिः - शन्तातिः
सूक्तं ६.०२५ →
दे. आपः। अनुष्टुप्

हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः ।
आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥१॥
यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्।
आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः ॥२॥
सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन ।
दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥३॥