← सूक्तं ६.०२२ अथर्ववेदः - काण्डं ६
सूक्तं ६.०२३
ऋषिः - शन्तातिः
सूक्तं ६.०२४ →
दे. आपः। १ अनुष्टुप् , २ त्रिपदा गायत्री, ३ परोष्णिक्।

सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।
वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥१॥
ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये ।
सद्यः कृण्वन्त्वेतवे ॥२॥
देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः ।
शं नो भवन्त्वप ओषधीः शिवाः ॥३॥