← सूक्तं ६.०२९ अथर्ववेदः - काण्डं ६
सूक्तं ६.०३०
उपरिबभ्रवः
सूक्तं ६.०३१ →
दे. शमी। जगती, २ त्रिष्टुप्, ३ चतुष्पाच्छंकुमत्यनुष्टुप्
शमी


देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।
इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥
यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।
आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥
बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि ।
मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥३॥

सायणभाष्यम्

दे॒वा इ॒मं मधु॑ना॒ संयु॑तं॒ यवं॒ सर॑स्वत्या॒मधि॑ म॒णाव॑चर्कृषुः।

इन्द्र॑ आसी॒त्सीर॑पतिः श॒तक्र॑तुः की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः ।।१।।

दे॒वाः । इ॒मम् । मधु॑ना । सम्ऽयु॑तम् । यव॑म् । सर॑स्व॒त्याम् । अधि॑ । म॒णौ । अच॒र्कृ॒षुः॒ । इन्द्रः॑ । आ॒सी॒त् । सीर॑ऽपतिः । श॒तऽक्र॑तुः । की॒नाशाः॑ । आ॒स॒न् । म॒रुत॑ः । सु॒दान॑वः ॥ १ ॥

मधुना मधुररसेन क्षौद्रेण वा संजितम् संप्राप्तं यवम् दीर्घशूकम् इमं धान्यविशेषं सरस्वत्याम् अधि सरस्वत्याख्याया नद्याः समीपे मणौ मनुष्यजातौ देवाः अचर्कृषुः कृतवन्तः । तदानीं कर्षणेन भूमौ तद् धान्यम् उत्पादयितुं शतक्रतुः इन्द्रः सीरपतिः हलस्याधिष्ठाता स्वामी आसीत् । सुदानवः शोभनदाना मरुतः कीनाशाः कर्षका आसन् ।

यस्ते॒ मदो॑ ऽवके॒शो वि॑के॒शो येना॑भि॒हस्यं॒ पुरु॑षं कृ॒णोषि॑।

आ॒रात्त्वद॒न्या वना॑नि वृक्षि॒ त्वं श॑मि श॒तव॑ल्शा॒ वि रो॑ह ।।२।।

यः । ते॒ । मद॑ः । अ॒व॒ऽके॒शः । वि॒ऽके॒शः । येन॑ । अ॒भि॒ऽहस्य॑म् । पुरु॑षम् । कृ॒णोषि॑ । आ॒रात् । त्वत् । अ॒न्या । वना॑नि । वृ॒क्षि॒ । त्वम् । श॒मि॒ । श॒तऽव॑ल्शा । वि । रो॒ह॒ ॥२॥

हे शमि ते तव संबन्धी यो मदः हर्षः अवकेशः अवमतकेशोत्पादकः विकेशः केशविगमनहेतुश्च भवति । येन मदेन अभिहस्यम् अभितो हसनीयं पुरुषं कृणोषि करोषि । अहमपि त्वत्तः अन्या अन्यानि त्वद्व्यतिरिक्तानि आरात् दूरवर्तीनि वनानि वृक्षि वृश्चामि । हे शमि त्वं शतवल्शा शतशाखा सती वि रोह विविधं प्ररूढा भव ।

बृह॑त्पलाशे॒ सुभ॑गे॒ वर्ष॑वृद्ध॒ ऋता॑वरि।

मा॒तेव॑ पु॒त्रेभ्यो॑ मृड॒ केशे॑भ्यः शमि ।।३।।

बृह॑त्ऽपलाशे । सु॒ऽभ॑गे । वर्षऽवृद्धे । ऋत॑ऽवरि । मा॒ताऽइव । पु॒त्रेभ्य॑ः । मृ॒ड॒ । केशेभ्यः । श॒मि॒ ॥ ३ ॥

हे बृहत्पलाशे । बृहन्ति महान्ति समधिकानि पलाशानि पर्णानि यस्याः सा बृहत्प- लाशा । हे सुभगे सौभाग्यकारिणि हे वर्षवृद्धे वर्षेणैव वृद्धे । अपुरुषप्रयत्नसिद्धे इत्यर्थः । हे ऋतावरि । ऋतम् उदकं सत्यं यज्ञो वा तद्वति । ऋतशब्दात् 'छन्दसीवनिपौ' ( पावा ५,२, १०९) इति मत्वर्थीयो वनिप् । 'वनो र च' (पा ४, १,७) इति ङीब्रेफौ । एवंभूते हे शमि पुत्रेभ्यो मातेव केशेभ्यो मृळ मृडय । यथा माता पुत्रान् अभिवर्धयति तथा केशान् वर्धयेत्यर्थः ।