← सूक्तं ६.०३० अथर्ववेदः - काण्डं ६
सूक्तं ६.०३१
उपरिबभ्रवः
सूक्तं ६.०३२ →
दे. गौः। गायत्री।

आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥१॥
अन्तश्चरति रोचना अस्य प्राणादपानतः ।
व्यख्यन् महिषः स्वः ॥२॥
त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।
प्रति वस्तोरहर्द्युभिः ॥३॥