← सूक्तं ६.०३२ अथर्ववेदः - काण्डं ६
सूक्तं ६.०३३
जाटिकायनः
सूक्तं ६.०३४ →
दे. इन्द्रः। गायत्री, २ अनुष्टुप्।

यस्येदमा रजो युजस्तुजे जना नवं स्वः ।
इन्द्रस्य रन्त्यं बृहत्॥१॥
नाधृष आ दधृषते धृषाणो धृषितः शवः ।
पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥
स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् ।
इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥

सायणभाष्यम्

'यस्येदमा रजः' इति तृचेन कृषिकर्मणि क्षेत्रं गत्वा युगलाङ्गलं बध्नाति । अनेनैव तृचेन दक्षिणम् अनड्वाहं युगे युनक्ति । ततः कर्ता इमं तृचं जपन् प्राचीनं कृषन् तृचसमाप्त्यनन्तरं हालिकाय हलं प्रयच्छेत् । तेन तिसृषु सीतासु कृष्टासु उत्तरसीतान्ते अग्निम् उपसमाधाय पुरोडाशेन इन्द्रं स्थालीपाकेन अश्विनौ च अनेन तृचेन यजन् तस्यामेव सीतायां संपातान् आनयेत् । सूत्रितं हि-'यस्येदमा रजः' इत्यायोजनानाम् अप्ययः' (कौसू २३,१७ ) इति ।
तथा सर्वफलकामः अनेन तृचेन इन्द्रं यजते उपतिष्ठते वा। 'यस्येदमा रजः' ( अ ६,३३ ), 'अथर्वाणम्' (अ ७,२), अदितिर्द्यौरदितिः( अ ७,६) इत्यादि सूत्रम् (कौसू ५९,१८)।
तथा भूमिकर्षणे लाङ्गलसंश्लेषलक्षणोत्पाते तच्छान्त्यर्थं क्रियमाणे शान्त्युदके
एतं तृचम् आवपेत् । 'अथ यत्रैतल्लाङ्गले संसृजतः' इति प्रक्रम्य 'अत्र शुनासीराण्यनुयोजयेद्' ( कौसू १०६,१;८ ) इति सूत्रितम् ।


यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ नवं॒ स्वः॑।
इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ।।१।।
यस्य । इदम् । आ । रजः । युजः । तुजे । जनाः । वनम् । स्वः ।
इन्द्रस्य । रन्त्यम् । बृहत् ॥१॥

यस्येन्द्रस्य इदं रज: रञ्जकं ज्योतिः तुजे तोजनाय शत्रूणां हिंसनाय आयुजः आयोजयति आयुक्तं संनद्धं करोति तस्य इन्द्रस्य रन्त्यम् रमणीयं बृहत् परिवृढं वनम् वननीयं स्वः सुष्टु प्राप्तव्यं निरतिशयसुखसाधनं वा तेजः हे जनाः। यूयं भजध्वम् इति शेषः । रज इति । रञ्ज रागे इत्यस्माद् असुनि 'रजकरजनरजःसूपसंख्यानम्' (पावा ६,४,२४) इति उपधालोपः । युज इति । युजिर् योगे । अस्माच्छान्दसे लुङि च्लेः अङ् आदेशः । तुजे इति । तुज हिंसायाम् । अस्मात् संपदादिलक्षणो भावे क्विप् । स्वरिति । सुपूर्वाद् अर्तेर्विच् । रन्त्यम् इति । रमु क्रीडायाम् । अस्मात् 'क्तिच्क्तौ च संज्ञायाम्' (पा ३,३,१७४) इति क्तिच् । 'न क्तिचि दीर्घश्च' (पा ६,४,३९) इति अनुनासिकलोपदीर्घयोरभावः । अत एव अन्यत्राम्नातम् - 'रन्तिर्नामासि दिव्यो गन्धर्वः' (तैआ ४,११,५) इति । तत्र भवं ज्योतिः रन्त्यम्।

नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑।
पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ।।२।।
न । आऽधृषे । आ । दधृषते । धृषाणः । धृषितः । शवः ।
पुरा । यथा । व्यथिः । श्रवः । इन्द्रस्य । न । आऽधृषे । शवः ॥ २ ॥

स च इन्द्रः नाधृषे नाधृष्यते अन्यैर्नाभिभूयते । स च धृषाणः धृष्टः सन् धृषितः । धृषित इति कर्तरि निष्ठा लिङ्गव्यत्ययः । धर्षकं शवः बलम् आदधृषते आधषर्यति अभिभवति । पुरा वृत्रासुरवधकाले व्यथि व्यथाकारि श्रवः श्रूयमाणम् इन्द्रस्य शवः बलं यथा नाधृषे अन्यैर्नाधृष्यत । तथेदानीमपीति संबन्धः।

स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्।
इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ।।३।।
सः । नः । ददातु । ताम् । रयिम् । उरुम् । पिशङ्गऽसंदृशम् ।
इन्द्रः । पतिः । तुविऽतमः । जनेषु । आ ॥ ३॥
स इन्द्रः नः अस्मभ्यं तं रयिम् धनं दधातु प्रयच्छतु । कीदृशम् । उरुम् प्रभूतं पिशङ्गसदृशम् पीतवर्णाभं वर्णप्रकर्षयुक्तम् । उत्कृष्टं काञ्चनम् इत्यर्थः । कस्माद् एवम् उच्यते इति तत्राह-इन्द्रः पतिरिति । स इन्द्रो जनेष्वा आकारः समुच्चये । सर्वेषु च जनेषु देवमनुष्यादिषु पतिः अधिपतिः इष्टप्राप्त्यनिष्टपरिहारयोःकर्ता । तुवित्तमः बहुतमः प्रभूततमः सर्वप्रकारोत्कर्षवान् इत्यर्थः ।
इति षष्ठकाण्डे चतुर्थेऽनुवाके प्रथमं सूक्तम् ।


टिप्पणी

६.३३.१ यस्येदमा रजो इति

द्र. कश्यपव्रतम् (आरण्यकगानम्) साम ५८८, आर्षेयब्राह्मणम् ६.३.७.२