← सूक्तं ६.०३१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०३२
१-२ चातनः, ३ अथर्वा
सूक्तं ६.०३३ →
दे. १ अग्निः, २ रुद्रः, ३ मित्रावरुणौ। त्रिष्टुप्, २ प्रस्तारपङ्क्तिः।

अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन ।
आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥१॥
रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः ।
वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्॥२॥
अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥