← सूक्तं ६.०४१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४२
भृग्वङ्गिराः (परस्परं चित्तैकीकरणकामः)
सूक्तं ६.०४३ →
दे. मन्युः। १-२ भुरिक्, ३ अनुष्टुप्

आद्येन तृचेनस्त्रीपुरुषयो- स्त्रीविषये पुरुषस्य मन्युविनाशार्थं कुपितं पुरुषं पश्यन् अश्मानम् अभिमन्त्र्य हस्तेन गृहीत्वा सखायाविव इति द्वितीयम् ऋचं जपन् अश्मानं भूमौ प्रक्षिप्य अभि तिष्ठामि इति तृतीयाम ऋचं जपन् तस्याश्मन उपरि निष्ठीवेत्।(कौ.सू. ३६.२८-३१)।

6.42
अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः ।
यथा संमनसौ भूत्वा सखायाविव सचावहै ॥१॥
सखायाविव सचावहा अव मन्युं तनोमि ते ।
अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः ॥२॥
अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च ।
यथावशो न वादिषो मम चित्तमुपायसि ॥३॥