← सूक्तं ६.०४४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४५
अङ्गिराः प्रचेता, यमश्च।
सूक्तं ६.०४६ →
दे. दुःष्वप्ननाशनम्। १ पथ्यापङ्क्तिः, २ भुरिक् त्रिष्टुप्, ३ अनुष्टुप्।

परोऽपेहि मनस्पाप किमशस्तानि शंससि ।
परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥१॥
अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः ।
अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥२॥
यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि ।
प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥३॥