← सूक्तं ६.०४५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४६
अङ्गिराः प्रचेता, यमश्च।
सूक्तं ६.०४७ →
दे. दुःष्वप्ननाशनम्। १ विष्टारपङ्क्तिः, २ त्र्यवसाना शक्वरीगर्भा पञ्चपदा जगती, ३ अनुष्टुप्।

यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न ।
वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।
अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
यथा कलां यथा शफं यथर्णं संनयन्ति ।
एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥


सम्पाद्यताम्

टिप्पणी

६.४६.१ वरुणानी ते माता यमः पिताररुर्नामास

अररु उपरि टिप्पणी