← सूक्तं ६.०५० अथर्ववेदः - काण्डं ६
सूक्तं ६.०५१
शन्तातिः।
सूक्तं ६.०५२ →
दे. आपः, ३ वरुणः। १ गायत्री, २ त्रिष्टुप्, ३ जगती।

वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः ।
इन्द्रस्य युजः सखा ॥१॥
आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥२॥
यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति ।
अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥३॥