← सूक्तं ६.०५१ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०५२ भागलिः। |
सूक्तं ६.०५३ → |
दे. १ सूर्यः, २ गावः, ३ भेषजम्। अनुष्टुप्। |
उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् ।
आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
न्यूर्मयो नदीनां न्यदृष्टा अलिप्सत ॥२॥
आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।
आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥