← सूक्तं ६.०५५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५६
ऋषिः - शन्तातिः।
सूक्तं ६.०५७ →
दे. विश्वे देवाः, २-३ रुद्रः। १ उष्णिग्गर्भा पथ्यापङ्क्तिः, २ अनुष्टुप्, ३ निचृत्।

मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान् ।
संयतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः ।
नमोऽस्त्वसिताय नमस्तिरश्चिराजये ।
स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥२॥
सं ते हन्मि दता दतः समु ते हन्वा हनू ।
सं ते जिह्वया जिह्वां सं वास्नाह आस्यम् ॥३॥