← सूक्तं ६.०५४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५५
ऋषिः - ब्रह्मा
सूक्तं ६.०५६ →
दे. विश्वे देवाः, २-३ रुद्रः। जगती, २ त्रिष्टुप्।

ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥
ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात ।
आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥
इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥