← सूक्तं ६.०५७ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५८
ऋषिः - अथर्वा (यशस्कामः)।
सूक्तं ६.०५९ →
दे. बृहस्पतिः, १-२ इन्द्रः, द्यावापृथिवी, सविता, ३ अग्नि-, इन्द्रः, सोमः। १ जगती, २ प्रस्तारपङ्क्तिः, ३ अनुष्टुप्।

यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे ।
यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥
यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः ।
एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।
यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥