← सूक्तं ६.०५८ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०५९ ऋषिः - अथर्वा |
सूक्तं ६.०६० → |
दे. अरुन्धती औषधिः। अनुष्टुप् |
अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति ।
अधेनवे वयसे शर्म यच्छ चतुष्पदे ॥१॥
शर्म यच्छत्वोषधिः सह देवीररुन्धती ।
करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥
विश्वरूपां सुभगामच्छावदामि जीवलाम् ।
सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥