← सूक्तं ६.०६४ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०६५ ऋषिः - अथर्वा |
सूक्तं ६.०६६ → |
दे. (चन्द्रमाः), इन्द्रः, पराशरः। अनुष्टुप्, १ पथ्यापङ्क्तिः। |
अव मन्युरवायताव बाहू मनोयुजा ।
पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥
निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ ।
वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥
इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः ।
जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥